2023-03-13 20:18:35 by manu_css
This page has been fully proofread once and needs a second look.
ननु किमिदं वाक्यं ? 'एकस्मृत्युपारूढ: एकार्थप्रतिपादक: पदसमूहो वाक्यं,'
विभक्त्यन्ता वर्णाः, पदं पदानामेकस्मृतिसमारोहणैकार्थाभिधायकसमूहो वाक्यम् ।
ननु चाऽर्थप्रतिपादक: पदसमूह इत्युक्तम् वर्णानां तु उच्चरितप्रध्वंसिनां
समुदायाऽसम्भवेन पदसमुदायाऽभावात् ।
एकस्मृतिसमारूढत्वमेव समुदाय इति चेत्, न दीननदीत्यादीनामपि
विपरीतक्रमाणां तथार्थप्रतिपादकत्वप्रसङ्गात् ।
न च पदानामपि प्रत्येकं वाक्यार्थप्रतिपादकत्वं, इतरपदवैयर्थ्यप्रसंगात्, किञ्चैकं
पदमेकं वाक्यमिति प्रतीतिरपि न विभिन्नवर्णालम्बना भवितुमर्हति, अनेकस्य
यथार्थेकप्रत्ययालम्बनत्वायोगात् । तस्मात् वर्णैरभिव्यक्ता स्फोटा देवार्थप्रतिपत्ति-
रिति । तदयुक्तं, वर्णातिरिक्तस्य स्फोटस्य प्रत्यक्षेणाऽप्रतीतिः । किञ्च स्फोटस्य
सत्तामात्रेणाऽर्थप्रतिपादकत्वे वर्णोच्चारमन्तरेणाऽप्यर्थप्रतिपादकत्व(2b)- प्रसंङ्गः ।
वर्णैरभिव्यक्तस्यार्थप्रतिपादकत्वे तु त्वं(त) दुक्तदोषस्यानतिवृत्तिः स्यात् । यथा च
रीत्या वर्णानां स्फोटाऽभिव्यञ्जकत्वं तयैवार्थाभिधायकत्वमेवास्तु, किमन्तर्गडुना
स्फोटेन ?
प्रयत्नभेदाननुपातिनो वायवीयाः ध्वनयः प्रत्येकमेव तत्तद्वर्णात्मकतया
स्फोटकमस्फुटमभिव्यञ्जयन्तः पूर्वपूर्ववर्णविषयानुभवजनितसंस्कारसाचिव्यलोभा-
दन्तःस्फुटं स्फोटमाभासयन्ते । ततश्चार्थप्रत्यय इति, तदप्ययुक्तम् । वर्णविज्ञानस्य
श्रोत्रत्वात् । किञ्चाऽऽरोप्याधिकरणयोः क्वचिद् भेदेन प्रतीतौ भ्रान्तिरुपपद्यते,
न च वर्णस्फोटयोः, क्वचिदपि भेदेन प्रतिपत्तिरस्ति । एकपदमेकं वाक्यमित्यादि-
व्यवहारस्य सेनानननाद्येकत्वव्यवहारवत्(?) समूहविषयत्वेनाप्युपपत्तेः । यदप्येक-
स्मृतिसमारोहेण दीननदीत्यादावविशेषेणार्थप्रतिपादकत्वमापादितं, तदपि पूर्वानु-
भवक्रमानुसारिस्मृतिविषयतया अर्थप्रतिपादकत्वेन परास्तम् । उक्तञ्च--
यावन्तो यादृशा ये च यदर्थप्रतिपादने ।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवाऽवबोधकाः ॥ इति,
तत् सिद्धमेतदुच्चरितप्रध्वंसिनामपि वर्णानामेकस्मृतिसमारोहेण समूहोऽर्थ-
प्रतिपादक इति उच्चरितप्रध्वंसित्वमनुपपन्नमनित्यत्वे प्रमाणाभावादिति कश्चित् ।
तदयुक्तम्, प्रमाणस्य विद्यमानत्वात् । तथाहि 'शब्दो नित्यः' कृतकत्वात्, घट-
वत् । असिद्धं तस्यः कृतकत्वमिति चेत्, न, ताल्वादिसंयोगकारणान्वयव्यतिरे-
कानुविधानात् । ताल्वादीनां व्यञ्जकत्वमिति चेत्, न, तद्व्यापारात् प्राक्शब्दे
सत्वे प्रमाणाभावात् कोलाहलप्रसङ्गाच्च । अन्यथा सुखादिकारणानां व्यञ्ज-
कत्वमेव स्यात् । विशेषाभावात् स एवाऽयं गकार इति प्रत्यभिज्ञानं प्रागवस्थाने