This page has been fully proofread once and needs a second look.

मा भांक्षीर्विभ्रमं भ्रूरधर विधुरता केयमास्यास्यरागं
पाणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् ।
इत्युद्यत्कोपकेतून् प्रकृतिमवयवान् [^1] प्रापयन्त्येव [^2] देव्या
न्यस्तो वो(2a) मूर्ध्नि मुष्यान्मरुदसुहृदसून् संहरन्नङ्घ्रिरंहः ॥ १॥
 
अत्र व्याख्याधर्मो यथा--
 
अतिरिक्तं पदं त्याज्यं हीनं वाक्यं निवेशयेत् ।
विप्रकृष्टं च संदध्यादानुपूर्वीं च कल्पयेत् ॥
लिङ्गं धातुं विभक्तिं च योजयेच्चानुलोमतः ।
अध्याहारानुषङ्गाभ्यां वाक्यं सम्पूर्णतां नयेत् ॥
 
अत्र च नामाख्यातोपसर्गनिपातसमुदायलक्षणस्य वाक्यस्यार्थो वाक्यार्थ इत्यु-
च्यते, तत्र नाम्नां सामान्यतोऽर्थवचनं 'सत्वप्रधानानि नामानि ।' 'सतो भाव:
सत्वं', अस्तिता, तत्प्रधानं, गुणभूता क्रिया, विभक्त्यर्थः कारकं च 'भावप्रधान-
माख्यातं भावो नाम क्रियाफलम् । यथा- ओदनं पचति देवदत्त इति, अत्र
देवदत्तकर्तृका क्रिया ओदनाख्यस्य भावस्य गुणभूता । अत्र भावनापुरुषप्रयत्न-
मात्रप्रधानं, तदुक्तम्--
 
'प्रयत्नः स्यात्सधर्म: स्यादुत्साहो भावना च सा' इति,
भावो धात्वर्थ: प्रधानं कारकाणां गुणभूतत्वात् ।
उक्तञ्च--
 
क्रियावाचकमाख्यातमुपसर्गो विशेषकृत् ।
सत्वाभिधायकं नाम निपातः पादपूरणे ॥ इति,
 
अत्र चं आख्यातस्य साध्यत्वात् इतरेषां च सिद्धत्वात् । सिद्धार्थसाध्यार्थ-
योर्यदेकस्मिन् वाक्ये समुच्चारणं तत् भूतभव्यसमुच्चारणे 'भूतं भव्यायोपदिश्यते'
इति न्यायात् साध्यार्थं भवितुमर्हति न सिद्धार्थमिति ।
 
ननु पदार्थवाक्यार्थयोः को विशेष: ? उच्यते, पदार्थ: साकांक्षो भवति,
वाक्यार्थस्तु निराकांक्ष इति । कथं गौरित्युक्ते किमित्याकांक्षायां गच्छतीत्युक्ते सा
याति तथा गच्छतीति गामपेक्षते । अथेदानीं गौर्गच्छतीत्युक्ते गौर्वाहदोहादिभ्यो
व्यावृत्य गमनेऽवतिष्ठते, गमनं चान्यगन्तृभ्यो व्यावृत्तं गव्ये वाऽवतिष्ठते । एवं
पदं पदार्थमात्रज्ञाने परिक्षीणशक्तिवाक्यं च प्रकरणाऽविरोधिनं स्वार्थमभिदधत्
पदार्थनियमे हेतुः ।
 
[^1] ज० 'प्रसभमवयवान्' ।
[^2] ज०, का० 'स्थापत्यन्त्येव' ।