This page has been fully proofread once and needs a second look.

महाकविवाण-विरचितं चण्डीशतकम्
 
मा भांक्षीर्विभ्रमं भ्र रघरूरधर विधुरता केयमास्यास्यरागं

पाणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम्

इत्युद्यत्कोपकेतून् प्रकृतिमवयवान्' [^1] प्रापयन्त्येव' [^2] देव्या

न्यस्तो वो (2a)
मूर्ध्नि मुष्यान्मरुदसुहृदसून् संहरन्नङ् घिघ्रिरंहः ॥ १॥
 

 
अत्र व्याख्यांघयाधर्मो यथा-
-
 
[ पद्यांडू १ व्याख्या
 
my
 

 
अतिरिक्तं पदं त्याज्यं होहीनं वाक्यं निवेशयेत् ।

विप्रकृष्टं च संदध्यादानुपूर्वीवीं च कल्पयेत् ॥

लिङ्गं धातुतुं विभक्तितिं च योजयेच्चानुलोमतः ।

अध्याहारानुषाषङ्गाभ्यां वाक्यं सम्पूर्णतां नयेत् ॥

 
अत्र
नामाख्यातोपसर्गनिपातसमुदायलक्षणस्य वाक्यस्यार्थीथो वाक्यार्थ इत्युंयु-

च्यते, तत्र नाम्नां सामान्यतोऽर्थवचनं 'सत्वप्रधानानि नामानि ।' 'सतो भाव:

सत्वं', अस्तिता, तत्प्रधानं, गुणभूता क्रिया, विभक्त्यर्थः कारकं च 'भावप्रधान-

माख्यातं भावो नाम क्रियाफलम् । यथा- ओदनं पचति देवदत्त इति, अत्र

देवदत्तकर्तृ का क्रिया श्रोदनाख्यस्य भावस्य गुणभूतांता । अत्र भावनापुरुषप्रयत्न-

मात्रप्रधानं, तदुक्तम्-
-
 
'प्रयत्नः स्यात्सधर्म: स्यादुत्साहीहो भावना च सा' इति,

भावो धात्वर्थ: प्रधानं कारकाणां गुणभूतत्वात् ।
 

उक्तञ्च-
-
 
क्रियावाचकमाख्यातमुपसर्गो विशेषकृत् ।

सत्वाभिधायकं नाम निपातः पादपूरणे ॥ इति,
 

 
अत्र चं प्रख्यातस्य साध्यत्वात् इतरेषां च सिद्धत्वात् । सिद्धार्थ
साध्यार्थ-

योर्यदेकस्मिन् वाक्ये समुच्चारणं तत् भूतभव्यसमुच्चारणे 'भूतं भव्यायोपदिश्यते'

इति न्यायात् साध्यार्थं भवितुमर्हति न सिद्धार्थमिति ।
 

 
ननु पदार्थवाक्यार्थयोः को विशेष: ? उच्यते, पदार्थ: साकांक्षो भवति,

वाक्यार्थस्तु निराकांक्ष इति । कथं गौरित्युक्ते किमित्याकांक्षायां गच्छतीत्युक्ते सा

याति तथा गच्छतीति गामपेक्षते । श्रथेदानीं गौर्गच्छतीत्युक्ते गौर्वाहदोहादिभ्यो

व्यावृत्य गमनेश्वतिष्ठते, गमनं चान्यगन्तृभ्यो व्यावृत्तं गव्ये वावतिष्ठते । एवं

पदं पदार्थमात्रज्ञाने परिक्षीणशक्तिवाक्यं च प्रकरणाऽविरोधिनं स्वार्थमभिदधत्

पदार्थनियमे हेतुः ।
 
१.

 
[^1]
ज० 'प्रसभमवयवान्' । २.
[^2]
ज०, का० 'स्थापत्यन्त्येव' ।