This page has not been fully proofread.

मङ्गलाचरणम् ]
 
मेदपाटेश्वर कुम्भकर्णकृतवृत्तिसमेतम्
 
[ ३
 
ननु शास्त्रादौ प्रयोजनाभिधेयसम्बन्धा अवश्यमुपादेयाः, तदनुपादाने श्रोतारो
न प्रवर्तन्ते तदप्रवृत्तौ शास्त्रं कृतमपि अनुपादेयं स्यात् । तदुक्तमाद्यैः-
दृष्टार्थे ज्ञातसम्बन्धं श्रोतु' श्रोता प्रवर्तते ।
 
शास्त्रादौ तेनं वक्तव्यः सम्बन्ध : सप्रयोजनः ॥ इति,
 
न चेदमशास्त्रमिति शङ्कनीयम् । 'पुरुषार्थशासनाच्छास्त्रम्' इति कृत्वा
सकलशास्त्र हेतुभूता भवानीभक्तिविषये प्रवृत्त्युत्पादकत्वादस्य । तदुक्तम्-
प्रवृत्तिर्वा निवृत्तिर्वा पुंसां येनोपदिश्यते ।
 
नित्येन कृतकेनापि तच्छास्त्रमभिधीयते ॥ इति,
 
तस्माद् 'यदुद्दिश्य प्रवर्तन्ते पुरुषास्तत्प्रयोजनमि'ति । पुरुषप्रवृत्तिनिमित्त-
त्वांदवश्यमभिधेयं प्रयोजनादि । तद् द्विविधं, मुख्यं गौणञ्च । तत्रानन्यार्थं मुख्यं,
यथा--- सुखं दुःखाभावश्च अन्यार्थ गौणं, यथा- सुखसाधनं दुःखपरिहारश्च ।
तदुक्तम्-
.
 

 
सुखाप्तिर्दु खःहानिश्च मुख्यमेतत्प्रयोजनम् । इति,
केचित्पुनर्धमार्थकाममोक्षा: प्रयोजनमित्याहुः तदयुक्त, ग्रामगमनादिषु
अव्याप्ते: कासपदेन तेषां सङ ग्रह इति चेत्, न निरुपमपदस्य कामपदस्य
कामिनीविषयानुराग एव प्रवृत्तिदर्शनात् । काम्यत इति व्युत्पत्या तत्रापि प्रवृत्ति-
रिति चेत्, एवं सत्यनेनैव सर्वसङ ग्रहे धर्माद्युपादानवैयर्थ्यप्रसङ्गः । तस्मात्
 
*
 
.
 
.
 
सुष्ठ्क्त - 'सुखाप्तिदु:खहानिश्चेति । अनेन प्रयोजनेन: सर्वे प्राणिनः सर्वाणि
कर्माणि सर्वाश्च विद्या व्याप्ताः । यथा चोक्तम्-
' प्रयोजनमनुद्दिश्य नं मन्दोऽपि प्रवर्तते । इति,
 
अत्र तु उभयमप्यस्ति । भगवत्या भक्तानां सुखार्थमेव प्रवृत्तेर्दर्शनात्,
 
तदुक्तम्-
'एभिर्हतैर्जगदुपैतु सुखम्' इति,
 
दुःखहानावपि कोऽपि प्रभावातिशयोऽस्यैव स्तोत्रस्य श्रूयते । किल कलित-
मयूरस्पर्थोऽस्य स्तोत्रस्य 'मा भांक्षीविभ्रमं' इत्याद्यपद्याद्याक्षरषट्कोच्चारसम-
समयमेव छिन्नपुनःप्ररूढावयवो वाण: आपेक्षिकसकलदुःख विनिर्मुक्तः सन् अग्रे-
तनं स्तोत्रं चकारेति । एवञ्च मुख्य प्रयोजनसद्भावः सूचितो भवति । श्रभिधेयो
भगवतीमहिमा, अर्थात् आपन्नास्त स्वरूप
जिज्ञासवो भक्ताधिकारिणः । श्रभि
धायकं स्तोत्रं तयोरभिधेयाभिधायकलक्षणः सम्बन्ध: सूचितो भवति । एवं सिद्ध-
प्रयोजनादिसद्भावं स्तोत्रव्याख्यानमर्हतीति, तस्येदमाद्य पद्य व्याक्त्तुं प्रस्तूयते
 
यथा-