2023-03-13 20:16:29 by manu_css
This page has been fully proofread once and needs a second look.
श्रीकुम्भः पृथिवीपतिर्वितनुते चण्डीशतव्याकृति-
व्याजादक्षरमक्षरात्मकमदः शुभ्रं जगत्यां यशः ॥७॥ युग्मम्
सत्यं चण्डीशते काव्ये टीका: सन्ति परःशताः ।
न तास्तथा यतष्टीकालक्षणं तास्वयं भवि (? ) ॥८॥
व्याकर्तुमुद्यतश्चण्डीशतं तद्भक्तिमान् बुधाः !
स्खलन्नपि न वाच्ये यद्भक्तिः क्षामयितुं क्षमा ॥९॥
न सहन्ते यथा किं किं भक्तानां भक्तवत्सलाः ।
धार्यते हरिणाद्यापि भक्तपादो यतो हृदि ॥१०॥
तस्माद् व्याकृतिरेषा मे ज्ञेयाः केवलभक्तितः ।
बाण एव यतः सम्यग्, बाणोक्तीर्वेद नापरः ॥ ११॥
प्रायेण सुगमं नात्र नीयते विवृतिं पराम् ।
दुर्गमं सुगमीकर्त्तुमयमस्मत्परिश्रमः ॥ १२॥
पदं प्रमाणं यैस्तस्य प्राधान्याद् गुणतां गते ।
तस्मात्प्रधानभावेन वाक्यं व्याक्रियते यतः ॥१३॥
इह खलु भुवनेश्वरीप्रसादासादितापसादावरप्रसाद: कविकुलचक्रवर्ती 'वणति
विचित्रोक्ती' रचनाचातुर्योचितवर्णघटनयाऽर्थसार्थवाहान् शब्दान् करोतीत्यन्वर्थ-
नामा बाणः, मृडानीमहिमोपदेशहिमकरकरसम्पर्काकर्कशभक्तजनमनःकान्तशशि-
कान्तकाठिन्ये नरत्वापादनेन जगदनुकम्पयन्, कलितसकलशास्त्रार्थतत्त्वः, सततं
शक्त्यागमार्थश्रद्धया भवानीभक्तिभरमवलम्ब्य श्रवणमननाद्युपायसम्पदासादित-
भवानीरूपब्रह्मापरोक्षभावतया समुल्लसदमन्दपरमानन्दसंविदधिगतकृतकृत्यभावो-
sपि विषयसुखसम्मुखमनाः, परमकारुणिकतया परेषामपि परमैश्वर्यं भक्तिदार्ढ्य -
योगाच्चतुर्वर्गप्राप्तिनिमित्तपरमपरामनुन्यासेनास्य स्तोत्रस्य कमपि सर्व-
प्रकर्षातिशयं दर्शयन् भगवत्याः स्तोत्ररूपं काव्यमुपनिबबन्ध । तत्र च प्रत्यूह-
व्यूहव्युदासार्थ शिष्टाचारपरिपालनाय च प्रथममभिमतदेवतानमस्कारस्यावश्य-
मुपनिबन्धनीयत्वेऽपि यथैवोत्तमदेवतानमस्कारस्तथैवोत्कृष्ट[1b]वस्त्वाशिषो निर्देश
इति पुराणकविसम्मतं प्रमाणयन् अघौघविध्वंसपटीयसीमाशिषमेवादितः श्रोतृ-
प्रवृत्तिनिमित्तीकरोति । तदुक्तमभियुक्तैः-
'आशीर्नमंस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम् ।' इति,
तत् इति काव्यम् । एवञ्च सति यथेश्वरादिनमस्कारात् प्रारिप्सितग्रन्थपरि-
समाप्तिपरिपन्थिकल्मषनिवृत्तिस्तथेहाऽपि तदाशीर्वादादवगन्तव्येति ।