2023-02-24 17:17:53 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क १०२ व्याख्या ] मेवपाटेश्वर-कुम्भकर्णकृत वृत्तिसमेतम्
[ १५१
"
1
कुं० वृ० - पार्वत्याः वामपादो वो युष्मकं सदैव दारुणं रौद्रं दुरितं शमयतु
शमं नयतु, किंभूतो वामचरण: तस्य महिषितवपुषो मायामहिषस्य सुरारेध्वंसात्
लब्धमानावकाशः, लब्धो मानस्य अवकाशो येन स तथा, तस्य कस्य, स्थाणुर्मंहेश्वरः
आज सङ्ग्रामे यं दृष्ट्वा क्षणमिव सभयं यथा स्यात् तथा स्थाणुरेव कीलक एव
उपजातः, विशेषरणद्वारेग उभयोः साग्यमाह, किंभूतः, स्रस्ताङ्गः स्रस्तं ध्वस्तं अङ्गं
यस्य स तथा स्थाणुरपि स्रस्ताङ्गो भवति, पुनश्च सन्नचेष्ट: सन्ना चेष्टा यस्य स
तथा स्थाणुरपि निश्चेष्टो निरङ्गश्च भवति; पुनश्च भयहृतवचन: भयेन हृतं
वचनं यस्य, स्थाणुः स्वभावादवचनः; सप्नदोर्दण्डशाख : सन्ना दोर्दण्डा एव शाखा
यस्य, यं दृष्ट्वा त्रिजगतां कोदण्डदीक्षागुरुरपि स्थाणुरेवमवस्थो जातस्तस्य सुरारे-
• ध्वंसात् लब्धमानावकाशो देव्या जगदम्बाया वामचरणो वो युष्माकं सदैव
अनवरतमेव सर्वं दुरितं नाशयतु इति सकलस्तोत्रार्थ:; एवं शब्दो वाक्य-
परिसमाप्ती ॥१०१॥ इति चण्डीशतवृत्तिः ॥
~
M
सं०व्या० - १०१ स्रस्ताङ्ग इति । पार्वत्याः पर्वतपुत्र्याः वामपादः दक्षिणे-
तरश्चरणो वो युष्माकं सदैव नित्यमेव दुरितमशुभं दारुणं शमयतु नाशयतु,
महिषितं वपुर्येन स महिषितवपुस्तस्य महिषितवपुषः सुरारंविध्वंसाल्लब्ध-
मानावकाश: मानपूजायां मानं मानः अवकाशोऽवसरो मानस्थावकाशो मानाव-
काश: लब्धो मानावकाशो येन स तथोक्तः, स्थाणुः शङ्करो महिषितवपुषं सुरारि
सरुषं सकोपं यथा क्षरणं दृष्ट्वा अवलोक्य स्थाणुः च खुंटक एवोपजतिः, कि-
विशिष्ट स्थाणुः स्रस्ताङ्गः सन्नचेष्टो भयहतवचनस्सन्नदोर्दण्डशाखः, स्रस्तं अधः-
पतितं श्रङ्गहस्तादिकं यस्य स तथोक्तः, इतरस्तु स्रस्तावयवः सन्ना गता चेष्टा
व्यापारी यस्य स तथोक्तः, भयेन हतं वचनं यस्येति विग्रहः, अपरस्तु निसर्गादेव
श्रवचनः, दोर्दण्डा एंव शाखा इति. दोर्दण्डशाखः, एकत्र सन्ना ग्लाना विस्तीर्णा
दोर्दण्डशाखा यस्य सन्नदोर्दण्डशाख इति ॥१०१॥
★
* कुन्ते दन्तै निरुद्धे धनुषि विमुखितज्ये विषाणेन शूलालू -
लागूलेन प्रकोष्ठे वलयिनि पतिते तत्कृपाणे स्वपाणेः ।
शूले लोलाङ्घ्रिघातै र्ललितकतलात् प्रच्युते दूरमुर्व्यां
२
.
सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती ॥१२॥
इति श्रीमहाकविनाणभट्ट विरचितं चण्डीशतकं समाप्तम् । सं० १६०२ श्रावण
कृष्णा १ भौमे शुभमस्तु ।
*इलोकोऽयं प्रतो नोपलभ्यते । ज. प्रतावयं व्याख्याविरहित एव, तदस्माभिः प्रपूरिताऽग्रिमे
पृष्ठे संक्षिप्त व्याख्या द्रष्टव्या-
२. का० पातैः ।
१. का० मूलात् ।