This page has not been fully proofread.

१५० ]
 
महाकविचाण विरचितं चण्डीशतकम् [ पद्याङ्क १०१ व्याख्या
 
कुं०वृ० - दर्पात् एवं हसन्तं सुररिपुं निघ्नती पार्वती वोऽवतात्, [443]
एवं इति कि, युद्धभूमेः सकाशात् दिगीशां दिङ्नाथानां गजानां प्रतिदिशं श्रयनं
गमनं तावत् युक्तं, साधु नश्यन्ति एते, सुभटरणयुधां एषां सुभटस्य रणे युध्यन्त इति
सुभटरायुधः तेषां तथा दारुणेन कर्मणा आशागजत्वं हीयेत, सुभटेन सङ्ग्रामे
मरणं प्राप्तो दिग्गजत्वमेव याति, यतो मूलोच्छेदाय प्रवर्तन्ते साधवः परं तु यच्च
एषां मध्ये स्थाणुसंज्ञो न पश्यति एतदद्भुतं चित्र स्थाणुना निश्चलेन भाव्यं,
कि विशिष्टानामेषां, भयचकितदृशां भयेन चकिता दृशो येषां भयचकितदृशां तेषां,
एवं हसन्तं [ सुरारि निघ्नती पार्व्वती युष्मान् श्रवतात्, इति रहस्यम् ॥१००॥
 
1
 
सं०व्या० - १०० युक्तं तावदिति ॥ सुराणां रिपुस्सुररिपुर्महिषस्तं
निघ्नती पातयन्ती पार्वती पर्वतपुत्री वो युष्मान् श्रवतात् रक्षतु किं कुर्वन्तं,
दर्षात् दर्पेण एवमित्थं हसन्तं, कथं हसन्तमित्याह, युक्तं तावदित्यादि, दिक्षुदिशेत
दिगोशांस्तेषां दिगीशां दिक्प्रभूणां प्रतिदिशं दिशं प्रति अयनं गमनं युद्धभूमेः सका-
शात् युक्तं साधु, सुभटस्य रणः सुभटररणः स्व ( त ) स्मिन् युद्धान्ते ( युध्यन्ते) इति सुभट-.
रणयुधः तेषां सुभटरणयुधां दारुणेन कर्मणा रौद्रेरण मरणात्मककर्मणा आशागजवं
दिग्गजत्वं हीयेते, आशागजस्वस्य हानि: स्यात् तस्मादु दिग्गजादीनां गमन-
मित्यादि, स्थाणुः संज्ञा यस्य स स्थाणुसंज्ञः शङ्करशूलपक्षे स्थाणुः खुंटः, यश्चैषां
दिग्गजानां भयचकितदृशां वित्रस्तलोचनानां स्थाणुसंज्ञो नश्यंति पलायते तदद्भुत-
मिति, इति स्यात् वाक्य समाप्तो, विभ्रत्स्थाणुः स्थिरो तत्तथाविध इति आश्चर्य-
मिति ॥१००।
 
=
 
.
 
स्रस्ताङ्गः सन्नचेष्टो' भयहृतवचनः सन्नदोर्दण्ड़शाखः
स्थाणुर्दृष्ट्वा यमाजौ क्षणमिव सभयं स्थाणुरेवोपजातः ।
तस्य ध्वंसात्सुरारेर्महिषितवपुषो लब्धमानावकाशः
पार्व्वत्या वामपादः शमयतु 'दुरितं दारुणं वः सदैव ॥१०१॥
 
१. ज०का० यं दृष्ट्वा स्रस्तचेष्टः, इत्यव्यतिरिक्तः पाठः पार्श्वे टिप्पणे च प्रदर्शितः ।
२. ज०का० भयहतवचनः ।
 
३. ज० स्थाष्ट्वा सुरारि स्थारगुर्देत्यं तमाजी, स्थाणुदैत्यं यमाजो इत्यपि पाठान्त
द्वयं प्रतिद्वये प्रदर्शितम् ।
 
४. ज० क्षरणमिव सरुपं; का. क्षरणमिह सरपं; क्षणमिव सभयमिति टिप्पणे ।
 
५. का० भवतां ध्वान्तमन्त हितार्कः, इति टिप्पणे ।