This page has not been fully proofread.

पद्याङ्क ९९-१०० व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
पङ्ग नेता हरीणामसमहरियुतः स्यन्दनश्चैकचको
भानोः सामग्रयपेतः कृत इति विधिना त्यक्तवैरः पतङ्गे ।
दर्पाद्द्भ्राम्यन् रणक्ष्मां प्रतिभटसमराश्लेषलुब्धः सुरारि
र्यस्याः पादेन नीतः पितृपतिसदनं साऽवतादम्बिका वः ॥१६॥
 
[ १४९
 
कुं० वृ० - यस्याः पादेन प्रतिभटसमराश्लेषलुब्धः, भटं भटं प्रतिभटं यः समरः
संयोगः तत्र लुब्धो गृध्नुः सन् दर्पात् रणभूमि भ्राम्यन् सुरारिर्यमसदनं नीतः
साबिक वोऽवतु किंभूतः सुरारिः, पतंङ्गे सूर्ये त्यक्तवैरः, त्यक्त वैरं येन, कुत
इति हेतोः, इतीति कि, विधिना ब्रह्मणा भानो: स्यन्दनो रथ: सामग्रचपेतः
· सामग्रीविकलः कृतः, हरीणां अश्वानां नेता सारथिः पङ्गुरचरणहीना, प्रसमहरि-
युतो विषमाश्वयुक्तश्च; अनुच, एकचक्रोऽपि अन्यसुरान्तरेषु सत्स्वपि भानुग्रहणं
-सुरेषु भानोमुख्यत्वादेव ॥ ।
 
D
 
सं०व्या० - ६६. पङ्ग नेतेति ॥ सा अम्बिका गौरी वो युष्मान् श्रवतात्
रक्षतु; किं कुर्वन् [सुरारि:] भ्राम्यन् पर्यटन रणक्ष्मां युद्धभूमि, दर्पात् दर्पण मदात्,
किंभूतः प्रतिभटसमराश्लेषलुब्धः प्रतिभटं प्रति समराइलेषो युद्ध-सम्बन्धी
योगः तस्मिन् लुब्धो गृघ्नः, अत एव त्यक्तवरः यस्याः पादेन सुररिपुमंहिषः पितृ-
पतिर्यम: तस्य सदनं वेश्म नीतः प्रापितः इत्युक्तं, पतङ्गः सूर्यः तस्मिन् त्यक्तं वैरं
येनेति विग्रहः, इदानीं भानो: मृदुत्वं प्रतिपादयन्नाह, पङ्ग नेंतेत्यादि, हरीणामश्वानां
नेता सारथिः प्ररुणः पङ्ग : [जङ्घा विकल:], स्यन्दनो रथः श्रसमहरियुतः प्रसमै
विषमैः अश्वयु क्तः, पुनरेकचक्र: एकं चक्रं यस्येति विग्रहः, इत्येवं विधात्रा साम-
ग्रघपेतः सामग्र चाइसम्पूर्णतया अपेतश्च्युतः कृतः युक्तः ॥ १६॥
युक्त तावद्गजानां प्रतिदिशमयन' युद्धभूमेर्दिगी शां
हीयेताशागजत्वं सुभटरणयुधां कर्म्मणा दारुणेन ।
यत्वेषां स्थाणुसंज्ञो भयचकितदृशां नश्यतीत्यद्भुतं तद
दर्पादेवं हंसन्तं सुररिपुमवतान्निघ्नती पार्व्वती वः ॥ १००॥
 

 
१. ज. का. प्रतिदिशगमन मिति पावें टिप्पणे च पाठः ।
 
२. ज. का. सुभटरणकृतां ।
 
३. ज. या चैषां स्थाणुसंशा भयचकितदृशां का यथेष स्थाणुसंज्ञो भयचकितदृशा ।