This page has not been fully proofread.

पद्याङ्क ९७ व्याख्या ।
 
मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १४७
 
:
 
पद्मशोण: पद्मवदारक्त: मूद्ध चकार पूर्वापेक्षया समुच्चकै: पद्मशोणश्चरणतल-
गतैः पादतलवतिभिः किरणरांपतद्भिरागच्छद्भिरित्यर्थः एतदुक्त भवति यो
महिषो देव्यै दीयते स मूर्द्धाग्रे च सालक्ष ( क ) त : ( क ) पद्मशोणो भवति असावपि
नख किरणप्रभा भिस्तथाविध इति ॥६६॥
 
क्वायं 'तीक्ष्णाग्रधाराशत निशितवपुर्वज्ज्ररूपः सुरारिः .
 

 
पादश्चार्यं सरोजद्य तिरनतिगुरुर्योषितः क्वेति देव्याः ।
ध्यायं ध्यायं स्तुतो यः सुररिपुमथने विस्मयाविद्ध चित्तैः'
पार्वत्याः सोऽवताद्वस्त्रिभुवनगुरुभिः सादरं वन्द्यमानः ॥१७॥
 

 
:
 
8
 
कुं०वृ ० -स: पार्वत्याश्चरणो वो युष्मान् नवतात्, किंभूतः त्रिभुवनगुरुभि -
ह्याद्यः सादरं यथा भवति तथा वन्द्यमानः पुनः किविशिष्टः यः सुररिपुमथने
त्यम ने विस्मयाविद्धचित्तैस्तैः आश्चर्याविष्टचित्त: [43b] इति ध्यायं ध्यायं
ध्यात्वा ध्यात्वा स्तुतः; इतीति कि, श्रयं सुरारिः क्व, अनु च, श्रयं देव्याश्चरणः
क्व, महदन्तरमनयोरित्यर्थः, किंभूतः सुरारि : तीक्ष्णाग्रघा राशतनिशितवपुर्वरूपः
•णार यानि धाराशतानि तैनिशितं, वपुर्यस्य स चासौ वज्ञश्च तीक्ष्णा-
ग्रधाराशतनिशितवपुर्वत्रः प्रकृष्टत्वेन तत्सहगः, प्रकृष्टे रूपेऽप्, प्रतिकठोरतनु-
रित्यर्थः; चरणश्च किंभूतः योषितः सम्बन्धी स्वभावकोमल : प्रतिगुरुश्च सरोजद्युतिः
सुकुमारतरत्वादनयोर्महति श्रन्तरेऽपि सुकुमारेण कठोरहननं आश्चर्यभूमिरिति
विस्मित ह्यादिभिः स्तुत इत्यर्थः ॥१७॥
 
सं०व्या० - ९७. क्वायमिति ॥ त्रिभुवनगुरुभिस्त्रैलोक्याराध्यैर्ब्रह्मादिभिर्देव्याः
पार्वत्याः सम्बन्धी यः पादः इत्येवं ध्यायं ध्यायं ध्यात्वा ध्यात्वा सुररिपुमथने
महिषवधे स्तुतः प्रशंसितः सादरमादरेण वन्द्यमानः प्रणम्यमानो वो युष्मान्
अवतात् रक्षतु, कथं ध्यायं ध्यायं यः स्तुत इत्याह, क्वायं तीक्ष्णाग्रेत्यादि क्वायं
वज्ररूपः सुरारिर्देवशत्रुर्वत्रस्य रूपमस्येति विग्रहः, किविशिष्ट: तीक्ष्णाग्र धारा-
शतनिशितवपुः, तीक्ष्णं येषां तानि तीक्ष्णाग्राणि धाराणां शतानि धाराश
तानि, तीक्ष्णाग्राणि च तानि धाराशतानीति तीक्ष्णाग्रधाराशतानि, तैनिशितं तीक्ष्णं
 
Tang
 
१. का. तीक्ष्णोग्रधारा० ।
.२. का. अमरगुरोर्योषितः, इति टिप्पणे ।
 
३. का. टिप्पणे 'ध्वात्वा घ्यात्वा' ।
 
४. का. विस्मयाबद्धचित्तः
 
५. का. वीक्ष्यमाणः वन्दितायाश्चेति पाठद्वयं पादे प्रदर्शितम् ।