This page has not been fully proofread.

१४६ ]
 
महाकविवाण-घिरचितं चण्डीशतकम्
 
[ पयाङ्क ९६ व्याख्या
 
हननेन भुग्नं कुटिलीभूतं आपातभुग्नस्तस्मिन् प्रपातभुग्ने सति मूर्ध्नि शिरसि,
पुनरपि किंविशिष्ट: निःशब्दकण्ठः निःशब्दो विगतशब्दः कण्ठो यस्येति विग्रहः
 
॥ ६५ ॥
 
पादोत्क्षेपाढ्वजद्भिर्नखकिरणशतैर्भूषितश्चन्द्रगौरै-
मूंर्द्धाग्रे वापत द्भिश्चरणतलगतैरंशुभिः' पद्मशोणः'।
सन्यस्ताली नरत्नप्र विरचितकरैश्चर्चितः क्षिप्तकायै-
र्यस्या देवैः प्रणीतो हविरिव महिषः साऽवतादम्बिका वः ॥१६॥
कुं०वृ० - साऽम्बिका वोडवतात्, सा का यस्याः मूर्द्धा देवैर्महिषः प्रणीतः उप-
नीतः, किमिव हविरिव सुसंस्कृत उपहार इव, किंभूतं हविर्महिषश्च उभयोः साघम्यं-
माह, नखकिरणशतंभू षितः नखानां किरणास्तेषां शतानि तैः, किंभूतंः नखकिरण-
शतैः, पादोत्क्षेपात् चरणस्य ऊर्ध्वं नयनात् उद्गच्छद्भिः, किंभूतैश्चन्द्रगौरैः चन्द्रो-
ज्वलं:; अनुच, मूर्द्धा आपतद्भिरांगच्छद्भिः चरणतलगतैरंशुभिः किरण: पद्मशोण:
पद्मवदारक्तः, चरणतलस्य रक्तस्त्रात् रक्तांशुमत्त्वं; अनुच, सन्यस्तालीनरत्नप्रविर-
चितकरैश्चर्चितः पूजितः, सम्यङ् न्यस्तानि अत एव आलीनानि रत्नानि येषु ते तथा
तथा प्रविरचिता विभागेन विरचिताः करा: प्रविरचितकराः सत्यस्तालीनरत्ना इच
ते प्रविरचितकराश्च तैस्तथा, कि विशिष्टदेवैः क्षिप्तकार्यः क्षिप्तो दण्डवत् कायो
यस्तै, तथा हविरिव उपकरुप्यमानो महिषो वा कुकुमचन्दनादिना रक्तश्वेतो भवति
पुष्पश्चचतो भवति, विभूषितो बलिर्देय इति च एवं महिषोपहारतुष्टा भवानी
युष्मभ्यं तुष्टि ददातु इति वाक्यार्थः ॥६६ ।
 
,
 
.
 
सं०व्या०-९६. पादोत्क्षेपादिति ॥ यस्यां अम्बिकाया देवैर्हविरिव संस्कृतं
हव्यमिव महिषश्र्चाध्चत: उक्तप्रकारेण पादतलेन नखरत्नधवल प्रभाभिरिव लिप्तः
प्रणीतः उपनीतः सा नम्बिका गौरी वो युष्मान् अवतात् रक्षतु, किविशिष्टः देवैः
संन्यस्तालीन रत्नप्रविरचितकरैः क्षिप्तकायैः, सन्यस्तानि रत्नानि आलीनानि
आलिप्तानि सभ्यस्तालीन रत्नानि तैः प्रविरचिता आभूषिताः करा येषां तैः
तथोक्तास्तैः, वामं न्यस्तानि त्यक्तानि आलोनानि श्रालिप्तानि रत्नानि यैस्तैः
तथोक्तैः, क्षिप्तो निहतः कायो यैरिति विग्रहः महिषापमानादिति भावः, किंवि-
शिष्टो महिषः पादस्योत्क्षेपः ऊर्ध्वप्रेरणं पादोत्क्षेपस्तस्मात् पादोत्क्षेपात् व्रजद्भिर्नख-
किरणशतेश्चन्द्रगोरैः चन्द्रवदावदातभूषितोऽलङ
कृतः पुनरपि किविशिष्ट
 
1
 
१. का. मूर्घा चापतद्भिश्चरणतलगतैरंशुभिः ।
२. का. शोरणशोभः ।