This page has not been fully proofread.

पद्याङ्क ६५ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
मूर्द्ध न्याघातभुग्ने' मिषमहिषतनुः सन्नतः शब्दकण्ठः
शोणाब्जाताम्रकान्तिप्रततघनबृहन्मण्डले पादपद्म ।
यस्या लेभे सुरारिर्मधुरस निभृत द्वादशाहिलीलां
शर्व्वाणी पातु सा वस्त्रिभुवनभय हृत्स्वर्गिभिः' स्तूयमाना ॥१५॥
 
3.
 
कुं०वृ० - सा स्वर्गिभिर्देवै: स्तू ( 432 ) यमाना भवानी वः पातु, किंविधा
त्रिभुवनभयहृत् त्रिभुवनभयहर्त्री, यस्याः पादपद्म सुररिपुमधुरसनिभृतद्वादशा-
दहिलीलां लेभे, मधुरसे निभृतो निश्चलो यो द्वादशाहिः षट्पदः तस्य विलासं
शोभां लेभे; किलक्षणे पादपद्म, शोणं च तदव्जं च रक्तोत्पलं तस्येवाताम्रा रक्ता
कान्तिर्यस्य तत् तथा, प्रततं प्रकर्षेण विस्तीर्णं घनं निबिडं बृहत् मण्डलं आभोगो
यस्य तत् शोणाब्जाताम्रकान्तिप्रततघनबृहन्मण्डलं च तत्तथा तस्मिन्, किंवि
शिष्ट: सुरारि: मिषमहिषतनुः व्याजमहिषरूप: पुन: किंभूतः सन्नतः सभ्यङ्ननः
शब्दकण्ठः अर्द्धनिःसृतः शब्दः कण्ठे यस्य, स्थिरा भव इति अर्द्धनिःसृता वाकू,
निपातितः क्व सतिं मूर्द्धनि श्राघातेन पादप्रहारेण नम्र सति, एवं सति सुरै।
स्तूयमाना शर्वाणी वः पायादिति वाक्यार्थः ॥६५॥
 
"
 
१. का० भग्न; ज० मूर्धन्यापातभुग्ने ।
 
२. ज. मिषतनुमहिषः; सुरमहिषतुनुरिंति का. टिप्पणे ।
 
३० ज० का० सन्न निःशब्दकण्ठः ।
 
[ १४५
 
सं०व्या० - १५. मूर्धन्यापातभुग्न इति । शर्वाणी शर्वपत्नी त्रिभुवन
भयंहृत् त्रैलोक्यभयहरा स्वगिंभि देवैः स्तूयमाना वो युष्मान् पातु रक्षतु, मिषेण
तनुमिपतनुः व्याजशरीरः, मिषतनुश्चासौ महिषश्च मिषतनुमहिष: सुरारिर्यस्या!
पादपद्म लब्धवान् मधुपसुनिभृतद्वादशार्धाङ्घ्रि लीलां, द्वादशानां अर्द्ध द्वादशा
षड्यो यस्य स द्वादशा [ ] त्रिः, मधु पिबतीति मधुपः, सुष्ठु निभृतः
सुनिभृतः मधुपश्चासौ निभृतश्च सुविनीतो द्वादशा [र्धा ] [स्तस्य लीलां
विलासं प्राप्तवान्, किविशिष्टे पादपद्म शोणाब्जाताम्रकान्तिप्रततघन महन्मण्डले,
शोणं च तत् अब्ज शोणाब्जें रक्तोत्पलं शोणाब्जस्येवाताम्रा कान्तिर्यस्य तत्
शोणा जाताम्रकान्ति, प्रततं प्रकर्षण विस्तीर्णं, घनं निबिडं महद्ब्रहमण्डल
भोगो यस्य पादपद्मस्य तत् तथोक्त, क्व सति मूर्ध्नापातभुग्ने सति श्वापांतेना-
४. ज० शोरणाब्जाताम्रकान्तिप्रततघनमहन्मण्डले ।
 
५० ज० मधुपसुनिभृत
 
६. ज० सर्वत्रिभुवनभयहृत् ।