This page has not been fully proofread.

;
 
१४४ ]
 
महाकविवाण-विरचितं चण्डोशतकम्
 

 
मार्गं शीतांशुभाजां सरभसमलघु' हन्तुमुद्यन् सुरारिं
नेत्रैरुद्वृत्तपत्र ः' सचकितमसुरैरुन्मुखैर्वीक्ष्यमाणः ।
यस्या वासो महीयान् मुदितसुरमना: प्राणहृत् पादपद्मः
प्राप्तस्तन्सूर्धसीमां सुखयतु भवतः सा भवानी हतारिः ॥१४॥
 
[पद्याङ्क १४ व्याख्या
 
-
 
*.
 
कुं०वृ० – सा हतारिर्व्यापादितशत्रुर्भवानी वः सुखयतु सा का यस्या वाम
पादपद्म: मुदितसुरमना आसीत् मुदितानि सुराणां मनांसि येन स तथा,
किंविशिष्टः तन्मूर्द्धसीमां प्राप्तः, तस्य महिषस्य मूर्द्धा तस्य सीमा तां अत एव
प्राणहृत् अर्थात्महिषस्य प्राणहरः पुनः किविशिष्ट : महीयान् महत्तरः, पुनः
किविशिष्टः सुरारि हन्तुं शीतांशुभाजां नक्षत्राणां मार्ग उद्यन् उद्गच्छन्, कथं
यथा भवति सरभसं यथा भवति तथा, किविशिष्टं नक्षत्रमार्ग, लघु प्रकाशस्य
महत्परिमाणत्वात्, किविशिष्टं सचकितं यथा भवति तथा प्रसुरैः ईक्ष्यमाणः,
किविशिष्टैरसुरैः, उन्मुखेरुद्धं वक्त्रैः कः नेत्रैः किं विशिष्टे : उद्वृत्तपत्र: उद्-
वृत्तानि ऊ वं वलितानि पत्राणि पक्ष्मदेशा येषां तानि ॥१४॥
 
.
 
सं०व्या० १४. - मार्गमिति ॥ हृतोऽरिर्महिषो यया सा हतारिः भवानी
भवपत्नी वो युष्मान् सुखयतु सुखिनः करोतु, यस्या वामः दक्षिणेतरो महीयान्
महत्तरः प्राणहृत् प्राणान् हरिष्टान् पादपद्मश्चरणसरोजो मूर्द्धसीमां तदीय शिखरा-
वधि प्राप्तो गतः, किंभूतो मुदितसुरमनाः मुदितानि हृष्टानि सुराणां मनांसि येन
स तथोक्तः यत एव महिषस्य प्राणहृत् पादपद्मस्तत एव मुदितसुरमनाः, कि
कुर्वन् तन्मूर्द्धसीमां प्राप्तः सुरारि देवशत्रु लघु महान्तं सरभसं सोत्कर्षं
हन्तु उद्यत् उत्पतत् कं मार्गं पन्थानं, केषां शीतांशुभाजां नक्षत्राणां शीतांशु
भजन्तीति, 'भजे: विण्', कि क्रियमाणोऽघ्रिपद्म: उद्यत् उत्पतत् वोक्ष्यमाणो
विलोक्यमानः, कैः अमरैर्देवैः उन्मुखैरूर्द्ध वमुखैः सचकितं यथा भवत्येवं, कैः करण-
भूतैर्वीक्ष्यमाणो नेत्रैः नयनैः उद्वृत्ततारैः उत् ऊर्ध्व वृत्तानि तारकाणि येषां ते
इति विग्रहः ॥१४॥
 
१. ज० फा० नेत्र रुद्द्त्ततारैः ।
 
२. ज. सचकितममररुन्मुखर्वोदयमाणः ।