This page has not been fully proofread.

१४२ ]
 
चण्डोशतकम्
 
महाकविबाण-विरचितं
 
[ पद्याङ्क ९२-९३ व्याख्या
 

 
प्रयतमानस्य तस्य मूलमपि विनष्टं यतः स एव पादपद्मः प्राणहरो जातः; अत्र
रुद्राण्येति पदं हरनिन्दार्थं प्रवृत्ते तस्मिन् सकोपायां श्रौचित्यमावहतीति नौषित्या-
लङ्कारः, स्थाणुः कीलको हरश्च तोयस्य स्थानमिति, अथवा तोयं स्थानमस्येति
बहुव्रीहिः; तथा तोयस्थानं पङ्कः पद्मश्चेति श्लेपालङ्कारोऽपि विरोधव्यतिरेको
 
ww
 
चेति ॥२॥
 
सं० व्या ० - १२. स्थाणाविति ॥ स्थाणो शङ्करे छलपक्षे खुंटे नुदति
प्रेरयति सति, नोऽस्माकं नवकण्डूविनोदः कण्ड्वा व्युदास इति एतदुक्त भवति, यो
हि स्थाणुः स्थिरो न भज्यते न च नमति तत्र कण्डूविनोदोऽयं तु न तथाविध इति
अङ्गानि पादादीनि तेषां जातं समूहोऽङ्गजातं नोऽस्माकं दिनकृततेजसा श्रादित्य-
तेजसा तापितं दग्धं, तोयस्थानेनाधिकतरं पटुतरं सुखमाप्तं धिगिदं निन्दिततम-
सेतन्माहिषं रूपं हि स्फुटमस्माकमेव मित्थं युद्धभूमौ रणभुवि शङ्करादिरहितायां
वदति ऋवाणे ? ) महिषे महिषासुरे रुद्रपत्त्या आरोपितो न्यस्तः प्राणहृत् प्राणहरः
पादपद्मः चरणपङ्कजः वो युष्मान् सुखयतु सुखिनः करोतु, रुद्राण्येव रुद्रः भूतः
मुढानामामुकतेति ('इन्द्रवरुणभवशर्वरुद्र सृड हिमाख्ययवयवनमातुलाचार्याणामानुक्
इति ङीप् ) ङीप् ॥१२॥
 
4
 

 
पिंषन् शैलेन्द्रकल्पं महिषमतिगुरुर्भग्नगीर्वाणगर्व्वः'
शम्भोर्यातो' लघीयान्' श्रमरहितवपुदूरमभ्यूह्यपातः ।
वामो देवारिपृष्ठे कनकगिरिसदां क्षेमकारोंऽह्रिपझो
यस्या दुर्वार एवं विविधगुणगतिः साऽवतादम्बिका वः ॥१३॥
 

 
कुं०वृ० – सा अम्विका वोऽवतात्, सा का यस्या वामांऽह्रिपद्मोऽत्र एवं
विविधगुणगतिः, विविधा गु ( 42b) णानां गतिर्यस्य स तथा, कथं तदाह विशेषण-
द्वारा, किंविशिष्टः पादपद्मः अतिगुरु: अतिशयेन गरीयान्, कि कुर्व्वन् शैलेन्द्र -
कल्पं महिषं पिषन् सञ्चूर्णयन्, शैलानामिन्द्रः शैलेन्द्र ईषदपरिसमाप्तः शैलेन्द्रः
शैलेन्द्रकल्पस्तं हिमाद्रेः किञ्चित्यूनं, पुनः किविशिष्टं भग्नो गीर्वाणानां गर्यो
येन, ऋत्र महिषं पिषता देवगर्यो भग्न इति विविधत्वं, अन्यदारभतो अन्यत्कृतं
 
.
 
१. का० भग्नगीर्वाणगर्व; शोरगीर्वाणगर्वमिति विशेषः पाठः ।
 
२० ज० का० जातो ।
 
-
 
३. गरीयानिति का० टिप्पणे ।
 
४. का० वपुर्न्यस्त उत्पात्य कोपादिति टिप्पण्याम् ।
 
४. का० क्षेमकारो हि यस्याः पादोऽतुल्यप्रभाव इति विशेषः पाठः प्रदर्शितः ।