This page has not been fully proofread.

पद्याङ्क ९२ व्याख्या । मेदपाटेश्वर-फुम्भकर्णकृत-वृत्तिसमेतम्
 
3
 
स्थागौ कण्डू विनोदो नुदति' दिनकृतस्तेजसा तापितं न
तोयस्थाने न वाप्त सुखमधिकतरं गाहने नाङ्गजातम् ।
शून्यायां युद्धभूमौ वदति हि धिंगिदं माहिषं रूपमेव्
रुद्राण्याsरोपितो वः सुखयतु महिषे प्राणहत् पादपद्मः ॥१२॥
 
.
 
I
 
}
 
कुं०वृ० - रुद्राण्याः पादपद्मो वो युष्मान् सुखयतुं किलक्षण: पादपद्मः,
पद्मशब्दो वा पुंसि पद्ममिति पुंल्लिङ्गः, किंविशिष्ट: पादपद्मः, रुद्राण्या
रुद्रशक्त्या रुद्रभार्यया महिषे [42] आरोपितः, किलक्षणः पादपद्मः प्राणहृत्
प्राणान् हरतीति प्राणहृत् मरणदातां श्रर्थान्महिषस्य किलक्षणे महिषे
शून्यायामिति रुद्रादिरहितायां युद्धभूमी एवं वदति सति एवमिति किं, इदं
नोऽस्माकं माहिषं रूपं घिक, अस्माकमिति बहुरूपापेक्षया बहुवचनं, एकस्य
निन्दनादितरसद्भावो द्योत्यते; तथा च न हि निन्दा निन्द्यं निन्दितुं प्रवर्त्तते
किन्तु निन्द्यादितरं स्तोतुं ईति न्यायात्, माहिषमिति धिग्योगे द्वितीया, कथं
निन्द्यमिति तदेव- विवृण्वन्नाह, महिषस्य खलु व्यंसनद्वयं भवति, स्थाण्वादी घ
कण्डूविनोदोऽनु च कर्द्दमलोलनञ्च तच्च यदै कत्रो भयमापद्यते तदा सुखाय भवति,
व्यस्तं सत् विपर्यासाय, इदं च विरुद्धद्विकं, स्थाणो: स्थलाश्रयत्वात् तोयस्थानस्य
जलाश्रयत्वं, सार्वजनीनत्वेन निगदव्याख्यानं, तच्च माहिषरूपे विषमां दशां आवहती-
त्युच्यते, कण्डूविनोदो नोऽङ्गजातं सर्वाण्यङ्गानि इति समूह्यार्थं अङ्गजात मिति
प्रयोगः, अङ्गजातं स्थाणौ स्थाणुविषये नुदति प्रेरयति, कण्डूं ज्ञात्वा तद्विनोदार्थं
स्थाणुं प्रति यामीति विनोद एव प्रेरणकर्तृ त्वेन प्रतीयते, इदं कृत्वा अचेतनस्य
कथं प्रेरणकत्तु त्वं इति न पर्यनुयोज्यं श्रचेतनस्य क्षीरादेः प्रवृत्तदर्शनात्; अनु च
• सुखकर्तृ तदेवाङ्गजातं तोयस्थाने नुदति, तोयस्य स्थानं तोयस्थानं सान्द्रकद्दमो.
देश: अधिकतरं गाहनेन विलोडनेन अनवाप्तं प्राप्तमिति यावत्, किविशिष्टं
श्रङ्गजातं दिनकृतस्तेजसा तापितं, श्रवितप्तस्य जलावगाहात् क्षणं तापप्राचुर्योप
लब्धेः, एवं विषममवस्थानं अवगाहमांने तस्मिन् रुद्राण्या पादपद्मो न्यधायीति
तस्मै द्वयमेकस्थं प्रभवति, पाद: स्थाणुरूपः कण्डू विनुदति तस्य च पद्मत्वं तोय-
स्थानत्वेन शैत्यापादनार्थं एवं सति भवान्यामपि तद्वैषम्यविधाताय प्रवृत्तायां
महतामधिक्षेपो न कार्य इति महाजनाचारपरम्परातिक्रमलक्षणपातात्, लाभार्थं
 
>
 

 

 
[ १४१
 
१. का. कण्डूविनोदान्नुदतीति टिप्पणे । २. का० नो; नः, वश्चेति पादे
स्थयंस्थाने इति प्रतो । ४. का. चाप्तं । ५. ज. का. रूपमेकं ।