This page has not been fully proofread.

पद्याङ्क १० व्याख्या ]
 
मेवपाटेश्वर-कुम्भकर्णकृत-वृत्ति समेतम्
 
एकेनैवोद्गमेन' प्रविलयमसुर प्रापयामीति पादो
 
यस्याः कान्त्या नखानां हसति सुररिपुं हन्तुमुद्यन्' सगर्व्वम् ।
विष्णोस्त्रिः पादपद्मरौं बलिनियम विधागतं' कैन
क्षिप्त सा वो रिपूणां वितरतु विपदः' पार्व्वती क्षुण्णशत्रुः॥१०॥
 

 
[ १३६
 
कुं० वृ० - सा पार्व्वती वो युष्माकं रिपूणां विपद आपत्तीवितरतु ददातु,
रिपूणामिति सम्प्रदानत्वाभावाद्राज्ञों दण्डं ददातीतिवत् षष्ठी, किविशिष्टा पार्व्वती
क्षुण्णशत्रुः व्यापादितारिः, सा का यस्याः पादो विष्णोः पादपद्म इति हसति,
कथा कृत्वा नखानां कान्त्या, कि कुर्व्वन्, सुररिपुं हन्तुं सगवं यथा भवति तथा
उद्यन् ऊर्द्ध वं गच्छन्, उद्यदिति पादपद्मविशेषणं वा उद्यच्च तत्सगर्व च उद्यत्स-
गर्वं, किलक्षणं विष्णोः पादपद्मं बलनियमविधौ कैतवेन कपटेन वामनतया पद-
त्र्यंयाच्याकपटेन त्रि: त्रीन् वारान् उद्गतं, नियमनं नियमः, बलेनियमो बलि-
नियम: तस्य विधिस्तस्मिन्, इतीति कि, श्रहं तु एकेनैवोद्गमेन ऊर्ध्वगमनेन असुरं
दैत्यं प्रविलयं नाशं प्रापयामि, परं क्षिप्रं शीघ्रमेव तत्र त्रिरुद्गमनं कपटनियमनं,
च; अत्र तु एक एवोद्गम:, प्रकृष्टं हननं क्षिप्रमिति हासे कारणम् ॥१०॥
 
सं०व्या० - १०. एकेनैवोद्गतेनेति ॥ पाद एव पद्म पादपद्म, नियमनं नियमो,
बलेनियमस्तस्य विधौ बलिनियमविधो वैरोचनिबन्धनविधाने विष्णोः कृष्णस्य
पादपद्म चरणसरोज (जं) त्रिः त्रीन् कैतवेन शाठ्येन उद्गतं ऊर्ध्वं गतं, श्रहं तु थक्क-
यमकेनैवाजमेन (?) ऊर्ध्वं गमनेन प्रलयं विनाशं असुरं प्रापयामीति, अत एव
पादश्चरणो नखानां कान्त्या सह विबुधरिपुं देवशत्रुं महिषं हन्तुं व्यापादयितुं सगवं
साभिमानं यथा भवत्येवं ऊर्ध्वमगच्छत् उद्यत् सा पार्वती पर्वतपुत्री वो युष्माकं
रिपूणां विपद श्वापदो वितरतु ददातु, किंभूता पार्वती, क्षुण्णशत्रुः क्षुण्णः संपिष्ट:
शत्रुर्ययेति विग्रहः, प्रत्रोद्यदिति लुद्वन्दबुह्माद्योग ( लुड्लङलृङ क्ष्वडुदात्त) इत्य-
डागमः प्राप्नोति शत्रुं आगमेप्सितानि त्तंन्यमिति (नित्यमिति ) वचनं भवति
यथा मातेरिट् भवति, यथायं पक्षः क्लिष्टः शिष्टेभ्यो न रोचते तथा पाठान्तरेण
केनाप्याद्या व्याख्या कर्तव्या अस्माभिस्तु यथादृष्टं व्याख्यातमिति ॥६॥
 
३. ज.. सह
 
१. ज. एकेर्नवोद्गतेन । २. का. प्रविजयमंपरमिति टिप्पणे ।
विबुधरिपुं । ४. ज. उद्यत् । ४. का. बलिनियमविधावुद्घृतं । ५. ज. का. क्षिप्रं ।
 
६. का. विपदं ।