We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

१३६ ]
 
महाकविबाण
विरचितं चण्डोशतकम्
 
खड्गः कृष्णस्य नूनं रहितगुणगतिर्नन्दकाख्यां प्रयातः'
शत्रोर्भङ्गेन वासस्तव मुदितसुरो नन्दकस्त्वेष पादः ।
भावादेवं जयायां नुतिकृति नितरां सन्निधौ देवतानां
 
सव्रीडा भद्रकाली हतरिपुरवताद्वीक्षिता शम्भुना वः ॥८॥
 
[ पद्याङ्क ८६ व्याख्या
 
कुं०वृ०-भद्रकाली वो युष्मान् अवतात्, किंविशिष्टा हतरिपुः, पुनः किंविशिष्टा
शम्भुना वीक्षिता, पुनः किं विशिष्टा सव्रीडा सलज्जा, कस्यां सत्यां देवतानां.
सन्निधौ जयायां भावात् अनुरागतः नुतिकृति सत्यां, नुति करोतीति नुतिकृत्
तस्यां, एवमिति किं तदाह, हे भद्रकालि ! एष ते वामः पाद एवं त्वां प्रति नन्दको
जातः, नन्दयतीति नन्दकः, किलक्षणः, शत्रोङ्गेन मुदितसुरः, महिपस्य वधेन
मुदिताः सुरा येनेति कृत्वा, यतो नूनं निश्चितं कृष्णस्य खङ्गो रहितगुणग तिः सन्
नन्दकाख्यो नन्दक इति संज्ञामात्रमेव गतः, गुणस्य गतिः प्रतिपत्तिः प्रसन्नत्वा-
द्गुणगतिः रहिता त्य[43b]का गुणगतिर्येन, यदृच्छया डित्यादिशब्दवत् तस्य
नन्दक इति संज्ञा, गुणैः कृत्वा तव वामश्चरण एव नन्दक इति ॥८i
 
.
 
सं० व्या०-८ε खङ्ग इति ॥ हतो रिपुर्महिपो यथा सा हतरिपुर्व्यापाि
शत्रुर्भद्रकाली भगवती वो युष्मान् अवतात् रक्षतु, नत्र 'तुह्योऽस्तातङन्यतरस्यां',
किविशिष्टा भद्रकाली वीक्षिता अवलोकिता शंम्भुना शङ्करेण कथंभूता वीक्षिता
सव्रीड़ा सह व्रीडया वर्त्तत इति विग्रहः सलज्जेति, क्व सति सव्रोडा, देवतानां
सन्निधौ सन्निधाने एवमित्थं तावदनुरागस्ते ( न ) जयायां प्रतीहार्यां नितरां सुतरां
नुतिकृति स्तुतिकारिण्यां सत्यां, महान्तो हि शिष्टसन्निधौ प्रत्यक्षप्रशंसया लज्जन्ते
इति भावः, देवतानामिति 'देवात्तल् इति स्वार्थे कस्तल', कथं जयायां नुतिकृति
सब्रीडा तदुच्यते, खड्गः कृष्णस्येत्यादि, गुणस्य गतिः प्रतिपत्तिर्गुणगतिः, रहिता
त्यक्ता गुणगतिर्येन स रहितगुणगतिः, कृष्णस्य विष्णोः खगो नूनं निश्चितं
नन्दकाख्यां नन्दकसंज्ञां प्रयात एव एतदुक्तं भवति, यदृच्छया कृष्णस्य खगो
नन्दक इत्युच्यते, तेन नन्दयतीति गुणेनेति नन्दकस्तवैष वामपादो दक्षिणेतरश्चरणः,
किभूतो मुदितसुर: मुदिताः सुरा येनेति विग्रहः, केन हेतुना मुदितसुरः शत्रोर्भङ्गेन
महिपस्य भञ्जनादिति ॥६॥
 
१. प्रयान्तः इति प्रतो । २. नन्दकल्स्वस्य इति प्रतो । ३. का. गतानामिति पादे
 
1