This page has not been fully proofread.

१३६ ]
 
महाकवियाण-विरचितं चण्डीशतकम् [ पद्याङ्क ८७ व्याख्या
 
हननसामर्थ्य इति द्योत्यते, किंविशिष्टा देवी, ईदृक् महिषवधलक्षणं कर्म
श्रुत्वा भावात् अनुरागात् दूरात् आगत्य शम्भुनाsश्लिष्टा प्रालिङ्गिता, कथं एत्य,
अनिभृत उल्वणो रभसो यत्र तद्यथा भवति, रभस उत्कर्षः, पुनः कथं यथा भवति,
बाहुं भुजं उपसॄ [41 a ] त्य भुजोपपीड [न]मित्यर्थः, शत एव देवी विशिष्यते, श्वसित-
भरचलत्तारको तहस्ता श्वसितस्य श्वासस्य पीडनात् यो भरः प्राचुर्य तेन चलन्ती
[चलन्त्यो] तारके यस्याः सा तथा, अत एव उद्घृतौ हस्ती यया सा श्वसितभर-
चलत्तारका चासौ उद्भूतहस्ता च श्वतिभरचलत्तारकोद्व्रतहस्ता ॥८७॥
 
1
 
सं० व्या० - ८७. श्रुत्वैतत्कर्मेति ॥ संतापिता अरय: शत्रवो देवा येन स
संतापितारिः, भुवनानां सुखं मुष्णातीति भुवनसुखमुद् तस्मिन् संतापितारौ तथा
भुवन सुखमुषि दैत्ये प्रेतकाष्ठां याभ्यां दिशं प्रेषिते प्रहिते सति गौरी वो युष्मान्
श्रव्यात् रक्षतु, किंविशिष्टा, शिलष्टी प्रालिङ्गिता स्थाणुना शङ्करेण दुराद्द व्यभिमुख
प्रभ्येत्य आगत्य, कथमभ्येय अनिभृतर । [भ] सं अनिभृति निभृतिरहितो उल्वणो
रसः स उत्कर्षो यस्मिन् अभ्यागमने तद् यथा भवत्येवं, कुतोऽनिभूतिरसं भावाद-
नुरागात्, कि कृत्वा श्रुत्वैतत् इदं देव्या महिषवधलक्षणं कर्म कर्माण्याकर्ण्य, किकृत्वा
श्लिष्टा, बाहूपसादं बाहू भुजी उपसद्य उपसृत्य बाहूपपीडनमित्यर्थः, अत एव श्व-
सितभरचलत्तारका धूतहस्तेति देवी, एवसितस्य श्वासस्य पीडनाद्भरः प्रातुर्यं तेन
चलन्त्यो तारके यस्याः सा तथोक्ता, धूतो हस्तो ययेति विग्रहः, किंकुर्वती गौरी
शङ्करेण श्लिष्टा, तं शङ्करं त्रिदिविषु देवुषु मिलत्सु सत्सु अलमत्यर्थ लज्जया
ब्रोडया वारयन्ती प्रतिषेधयन्ती मैवं कुर्विति व्याहरन्तीति भावः ॥८।
भद्र' स्थास्तवाङ्घ्रिः क्षतम हिषरगव्याजकण्डू तिरेष-'
स्त्रैलोक्यक्षेमदाता भुवनभयहरः शङ्करोऽतो हरोऽपि ।
देवानां नायकत्वाद्गुणकृतवचनो' नो महादेव एष
केलावेवं स्मरारौ वदति रिपुवधे पार्श्वती वः पुनातु ॥८८ ॥
 
१. ज० फा० ०रेष: का० ० रेवेति टिप्पणे ।
 
२. ज० मे लोपयक्षेमदानाडू वनभयहरः ।
 
३. फा० देवानां नायिके । स्वद्गुणकृतवचनो; ज० देव ह्यादिभिस्त्वद्गुणकृतवचनो ।
 
४. ज० एव ।
 
५. ज० का० स्मरारिहंसति ।
 
६. ज० का० यो शिया पातु सा चः ।
 
3