This page has not been fully proofread.

१३४ ]
 
महाकविवाण-विरचितं चण्डोशतकम्
 
[ पद्याङ्क ८५ व्याख्या
 
मदो रतिमदः तेन विलसन् यः स्त्रीणां कटाक्षः तस्य क्षमा, स्त्रीकटाक्षमेव सोढुं
शक्नोति न शृङ्गयुग्मं श्रन्त्र पर्वतशृङ्गभ्रान्त्या शृङ्गयुगं नारोहरणीयमिति
वाच्योऽर्थः, श्रतोत्र मुग्धपदेन भ्रान्तिमदलङ्कारता ध्वन्यते; अन्यच्च, हे भानो !
अत्राहं पादन्यासं करोमीति किं तव जीवितेन, हि यस्मात् त्वं क्षितिमहिषतनौ
प्राकृतमहिषशरीरे आरोपितपादः, पादशव्देन कराश्चरणो च कथ्येते; ग्रहं तु तादृशो
महिषो न भवामि यत्र त्वं पादन्यासं करोषि सम्यक् न्यस्ता स्थापिताः पादा
रश्मयो येन पादश्चरण इति शब्दच्छलं त्यक्तचरणस्त्वमिति हास्यार्थः ॥८५॥
 
.
 
तु
 
सं०व्या ०-८५. मैनामिन्दोऽभिनंषोरिति । विगता असवः प्राणा यस्य स व्यसुः,
विगतप्राणमसुरं महिषरूपिणं कुर्वती उमा गौरी वो युष्मान् त्रायतां रक्षतु,
असुरमेवमित्थं दत् दर्पेण हसन्तं चन्द्रादित्यो, कथं तदुच्यते, मैनामिन्दो इति,
हे इन्दो चन्द्र ! स्वां तनुं निजं शरीरं मा शृङ्गयुग्मस्य पात्र्यं पात्रभावमभिनैषीः
[भिमुखं नय, श्रितमाश्रितं पृथु विस्तीर्णं शिखरं पर्वतशृङ्गं यया तां तनु तथोक्तां,
अनेनैतदुक्त भवति पर्वतशृङ्गं विपुलं तु चन्द्रो यथा तथा श्रयते, इयं तु शृङ्ग-
युग्मं अस्मदीयं तीक्ष्णं, भवता प्राश्रयितु अशक्यं श्रत एवंविधा भवतस्तनुरियं
रतिमदविलसत्स्त्री कटाक्षक्षमेति रतेर्मदेन या विलसन्ती अभिसारिका स्त्री तस्याः
कटाक्षो ह्रस्वतिर्यकुप्रेक्षितं यत् तस्याः क्षमा सहा इति; भानो ! भास्कर !
वीक्षितेन अवलोकितेन क्षितौ महिषस्तस्य तनुः क्षितिमहिषतनुस्तस्मिन् हि यस्मात्
त्वं सभ्यस्तपादः, अहं तुं तादृशो महिषो न भवामि यत्र पादन्यासं करोषीति भावः,
सम्यक् त्यस्ता स्थापिता: पादा रश्मयो यस्येति विग्रहः, छलपक्षे तु, पादश्चरण
इति, हास्यपक्षे तु, सन्यस्तपादस्त्यताङ्घ्रिः कुष्ठीत्यर्थः ॥६५॥
 
,
 
4
 
.
 
सङ्ग्रामात्त्रस्तमेतं त्यज निजमहिषं लोकजीवेश मृत्यो !
स्थातुरौं शस्त्राग्रभूमौ' गतभयमजयं मत्तमेनं गृहाण ।
 
दैत्ये पादेन यस्याश्छलमहिषत नौ प्रापिते दीर्घनिद्रां
 
द्राग् दुर्भेदे' जयैवं हसितपितृपतिः सा शिवा वः पुनातु ॥८६॥
 
१. ज० संग्रामात्त्रस्त मेनं ।
२. ज० का० शूलाग्रभूमौ ।
३. का० मत्तमेतं ।
४. ज० का० शायिते ।
 
.
 
*
 
५. ज० का० भावोत्पत्तौ ।
६. ज० का ० इसति पितृपति ।
७. ज० का० साऽम्बिका ।