We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

पद्याङ्क ६४-६५ व्याल्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेत म्
 
[ १३३
 
क्षोभंभाजः, मन्दरेण क्षोभस्तमिव भजन्ते, यथा मन्दरेण क्षोभं नीताः तथा पुन-
रपि तेन नीता इत्यर्थः; पुनः किविशिष्टान् पुनरपि हेतुगर्भ विशेषगमाह, भ्राम्य
द्धीमोरुदेहक्षुभित चलज़ लव्यस्तवीचीसकम्पान्, भ्राम्यन् योऽसौ भीमो रौद्र उरुवि
शालो देहः तेन क्षुभितं यत् चलं चञ्चलं जलं तेन व्यंस्ता या वीचयः ताभिः सह
कम्पेन वर्तमानान् कृत्वेत्यर्थः ॥४॥
 
सं०व्या०-८४. भ्राम्यदिति ॥ दैत्यानां नाथो दैत्यनाथस्तं पिषती चूर्णयन्ती श्रद्रेः
पर्वतस्य कन्या कुमारी वो युष्मान् पातु रक्षतु, कि विशिष्टं चरणभरनतं चरण-
भरेण नतं, कि कुर्वन्तं एवमित्थं दर्षात् दर्पेणायान्तमागच्छन्तं श्रवणं श्रुतिस्तस्याः
 
*
 
"
 
J
 
.
 
}
 
पदं स्थानं श्रुतिपदं श्रवणेन्द्रियं तस्य परुषो निष्ठुरः तं श्रुतिपदपरुषं नादं शब्द-
मुगिरन्तं अतीवोत्सृजन्तं किं कृत्वाऽयान्तं, सह कम्पेन वर्तन्त इति सकम्पास्तान्
जलधीन कृत्वेवं कृत्वा, श्राशु क्षिप्रं, किविशिष्टान् जलधीन् भ्राम्यद्धामौर्वदेहक्षुभित-
चलजलचरव्यस्तवीचीन्, ऊर्वो वाडवाग्निः, घाम तेजः भ्राम्यद्धाम तेजो यस्य स
आम्यद्धामा सचासो ऊर्व्वश्च भ्राम्यद्धामौर्वस्तस्य दाहस्तापस्तेन चलिता क्षुभिता
जलचरा मत्स्यादयस्तैर्व्यस्तस्य इतस्ततः क्षिप्ता वीचयस्तरङ्गा येषां जलॅनिधीनां
ते तान् यथोक्तान्, पुनरपि कि विशिष्टान् कृत्वा प्रसन्नान् अनाविलान्, पुनरपि
 
:
 

 
}
 
भूयोऽपि मन्दरक्षोभभाजः कृत्वेदमुक्तं भवति, यथापूर्व मन्दराद्रिणा जलधयः
क्षोभभाजः कृतास्तथेदानीं महिषेणापि इति ॥८४ ॥
 
*
 
मैनामिन्दो ऽभिनैषीः श्रितपृथुशिखरां शृङ्ग[406] युग्मस्य पात्र्यं
युद्धक्ष्मायां तनु स्वां रतिमंद
विलसत्स्त्री कटाक्ष क्षमेयम् ।
भानो ! किं वीक्षितेन क्षितिमहिषतनौ त्वं हि सन्यस्तपादो
दर्पादेवं॰ हसन्तं व्यसुससुरमुमा कुर्व्वती त्रायतां वः ॥ ५५॥
 
3
 
१. का० मैनां मुग्धे., इति टिप्पणे ।
२. का० पावें ।
 
३. सन्यस्तपादो इंति प्रतो ।
 
४. पर्दादेवं, इति प्रतो ।
 
प्र
 
कुं०वृ०- उमा वस्त्रायतां, कि कुर्वती असुर दैत्यं व्यसुं विगतप्राणं कुर्वती,
किंविशिष्टं, दर्षाद् गर्वादेव वक्ष्यमारणं हसन्तं, एवमिति किं तदाह, हे इन्दो !
एनां स्वां तनुं युद्धक्ष्मायां सङग्रामभूमो शृङ्गयुग्मस्य पात्र्यं मदीयशृङ्गयुगलपात्रतां
मा अभिनैषीः मा प्रापय किविशष्टां श्रितपृथुशिखरां श्रितं पृथु विशाल पर्वत-
शिखरं यथा सां तथा तां, यत इयं ते तनुः रतिमदविलसत्स्त्रीकटाक्षक्षमा, रत्यर्थं