This page has not been fully proofread.

१३२ ]
 
महाकविताण-विरचितं चण्डीशतकम् । पद्याङ्क ८३-८४ व्याख्या
 
तदाह, हे देवि ! तव शूलेन अलं यतः एतदेव मम मूर्ध्न: शुलं, 'शूलं रोगे
प्रहरणे च', किं तत् यत् शङ्करोत्खातशूलं अभिमुखं सत् विफलं जातम्, विफल -
मिति निष्फलं, अथ फलेनाग्रभागेन रहितं, 'सम्भावितस्य चाशक्ति (कीर्ति ) -
र्मरणादतिरिच्यत' इति न्यायात्; मयि पतितं शङ्करशूलं भग्नाग्रमभूदिति, इयं
सम व्यथा; अनुच, हरिणा विष्णुना एतत् अरि चक्रं, भरा विद्यन्ते यस्मिन्
नरि, सङ्ग्रामाद्दरे धृतं, मथि किञ्चित्करं ज्ञात्वा साङ्ग्रामावहिष्कृतं, एतदपि
मम मनः कर्षतीव पीडयतीव, एवं सगर्ववचनं दैत्यं निघ्नती वः पायादिति ॥८३॥
 
.
 

 
सं०व्या० - ८३. मूर्ध्नः शूलमिति ॥ पदस्य भरः पदभरस्तेन दलनं पदभर-
दलनं ततः पदभरदलनात्, प्राणतः प्राणेभ्योऽपि दूरयन्ती दूरीकुर्वती, कं दैत्य-
सेनाधिनाथं महिषं, शर्वाणी शर्वपत्नी वो युष्मान् पातु रक्षतु, दूरयन्ती तत्र
स्थूलद्रेत्यादिना यणादिलोपो नाशङ्कनीयः कालिदासादिमहांक विप्रयोगात्,
कि कुर्वन्तं दैत्यसेनाधिनाथं, एवमित्थं क्षिपन्तं निन्दितं निन्दन्तं गर्वात् गर्वेण
विबुधजनविभू शङ्करनारायणी, कथं क्षिपन्तमित्याह, मूर्द्धन: शूलमित्यादि, एतत्
शङ्करेणोत्खातशूलं हरेणोद्यतं शूलं अभिमुखं शूलं शूलहेतुत्वात् भरा विद्यन्ते
इत्यरि चक्रं एतदिदं सङ्ग्रामा विप्रकृष्टं हरिणा विष्णुना धृतं मन्मनो मन्मानसं
 
,"
 
कर्षतीवात्मानं प्रति नयतीत्यर्थः ॥८३ ॥
 
भ्राम्यद्भीमोरुंदेहक्ष भितचलजलव्यस्तवीचीसकम्पान्
कृत्वा द्रागप्रसन्नान् पुनरपि जलधीन्मन्दरक्षोभभाजः ।
दर्प्रादायान्तमेवं श्रुतिपुटपरुष' नादमभ्युद गिरन्तं
 
कन्याद्र: पातु युष्मान् चरुणभरनतं पिंषती दैत्यनाथम् ॥ ८४ ॥
 
N
 
}
 
कुं०वृ० - प्रद्रेः कन्या युष्मान् पातु, कि कुर्व्वती दैत्यनाथं पिषती चूर्णयन्ती,
किंविशिष्टं चरणभरनंतं वामंचरणन्यांसवशात् नतं, पुनः कि कुर्वन्त, दर्पाद्
गर्वादायान्तं श्रागच्छन्तं कि कुन्तं एवं श्रुतिपुटपरुषं नादं श्रभ्यु गिरन्तं श्रवण-
पुटकठोराणि पूर्वोक्तानि वाक्यानि जल्पन्तं, कि कृत्वा जलधीन समुद्रान् द्राक्
शीघ्रं अप्रसन्नान् कृत्वा कलुषान् विधाय, किंविशिष्टान् जलधीन्, पुनरपि मन्दर -
 
१. ज० का० भ्राम्यद्धामोर्वदाहक्षुभितजलचरव्यस्तवीचीन् सकम्पान् ।
२. ज० का० कृत्ववाशु प्रसन्नान् ।
 
३. का० दर्पादायान्तमेव ।
 
४. ज० श्रुतिपदपरुषं
 
.