This page has not been fully proofread.

८२-८३ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत वृत्तिसमेतम्
 
[ १३१
 
तीति भावः; श्रथ यः पूर्वं स्वतनुकरं स्वशरीरदण्डं दन्तव्याजेन प्रदात् स कथं
युद्धयोगमिष्य [40a]तीत्यभिप्रायः, यतः सोऽपि शान्तः स ( श) मं प्राप्तः, इति दृप्तं
जल्पन्तं दानवं निघ्नती वः पायादिति वाक्यार्थः ॥५२॥
 
सं०व्यां०- ८२. बालोऽद्यापीशजन्मेति ॥ महिषस्य तनुर्महिषतनुस्तां
बिभति इति भृतः क्विप्, महिषतनुभृतं दानवं दनुजं वामपर्ण्या निघ्नती निपात-
यन्ती शैलपुत्री पार्वती वो युष्मान् पायात् रक्षतु, किंविशिष्ट महिषं, इत्येवं
संस्फुरोक्त, संस्फुरं स्फुरणयुक्त उक्तमभिहित मिति विग्रहः, मुदिततनुमुदं दृष्टमव-
लोकितं, मुदितासौ तनुश्च मुदिततनुः रोमाञ्चितशरीरं तत्र मुत् हर्षो यस्य स
मुदिततनुमुत् तं मुदिततनुमुदं बहिरन्तश्च हर्षमित्यर्थः; कथं संस्फुरोक्त तदाह,
बालोऽद्यापीशजन्मा इत्यादि, ईशाज्जन्म यस्य स ईशजन्मा कुमारः, समरसुरपतिः
समरसुराणां प्रभुः प्रद्यापि बालो डिम्भः, अत एव पांशुलीलाभियोग्यः इति
विशेषितवाचं, पांशुना लोला तस्या अभियोग्यो धूलिक्रोडायोग्य इत्यर्थः; नागास्ये-
वास्यं यस्य स नागास्यो विनायकः शातदन्तः शातो दन्तः यस्येति विग्रह, ननु कृशं
करोतीति तनुकर: प्रतनुकर: स चासो मदश्च प्रतनुकरमदः तस्माद् विह्वलो
विवशः, मतः सोऽपि शान्तः शमं गतः, न केवलमस्य दन्त इति, धिग् यासि क्वेति,
क्व गच्छसि त्वां धिक्, पुत्रबालभावादस्मद्वशे पतितासीति भावः ॥१२॥
 
:
 
A
 
मूर्द्धनः शूलं ममैतविफलमभिमुखं शङ्करोत्खातशूलं
सङ्ग्रामाद्दूरमेतद्धृ तमरि' हरिणा मन्मनः कर्षतीव !
गर्वादेवं क्षिपन्तं विबुधजनविभू' दैत्यसेनाधिनाथं
 
शर्वाणी पातु युष्मान् पदभरदलनात्प्राणतो दूरयन्ती ॥८३ ॥
 
कुं०व० - शर्वाणी शर्वदयिता युष्मान् पायात्, इन्द्रवरुणेत्यादिनाऽऽनुगि शर्मा-
णीति रूपं, कि कुर्वती दैत्यसेनाधिनाथं प्राणतः प्राणेभ्यो दूरयन्ती दुरी कुर्वती,
दूरयन्तीत्यत्र स्थूलदूरेत्यादिना यणादिलोपो नाशङ्कनीयः कालिदासादिमहाकवि-
प्रयोगदर्शनात्, कस्मात् पदभरदलानात्, पदस्य भरः पदभरः तेन दलनात्, दैत्यनाथ-
मित्येव सिद्धे सेनाग्रहणं ससेनस्य विनाशनादुयुक्तं, कि कुर्व्वन्तं गर्वात् अहङ्कारात्
विदुषजनविभू शङ्करनारायणी एवं क्षिपन्तं निन्दन्तं, विबुधजनविभू इत्येव कृच्,
तद्भयाद् विबुधानां भुवि जनवद् भ्रमणात् विबुधजनविभू इत्युक्त एवमिति कि
 
१. का० दूरमस्मत स्थितमरि, इति टिप्पणे ।
२. का० विदुधजनविभून् ।