This page has not been fully proofread.

१३० ]
 
महाकविवाण-विरचितं चण्डीशतकम् [ पद्यांङ्क ८१-८२ व्याख्या
 
किलात्यादि, कर एव कमलं करकमलं तस्य भावः करकमलता तया हेतो
भूतया, केशपाशं कचतिकरं, मुरधे ! एवमित्थं किल मुहुः पुनर्मासीर्मा गृहीस्त्व-
मासीरिति, प्रसुगतिदीप्त्यादानेष्टीत्यतो माडिल् यदिति लुट्, यः केशपाशो रतादो
सुरतारम्भे प्रिये वल्लभे कोपलब्धे कोपप्राप्ते कलह समुचितो विग्रहयोग्यः
सोऽन्यस्त्रीणां श्रपरयोषितां अस्मदीयानां तु न तु. परस्त्रिया इति भावः ॥८१॥
बालोऽद्यापीशजन्मा समरमुडुपभृत्' भस्मलीलाविलासी
 
नागास्यः शातदन्तः स्वतनुकरमदाविह वलः सोऽपि शान्तः ।
धिग्यासि क्वेति हप्तं ' मृदिततनुमददं दानवं संस्फुरोक्त
 
पायाद् वः शैलपुत्री महिषतनुभृतं निघ्नती वामपाष्र्या ॥८२॥
 
कुं०वृ० - शैलपुत्री पर्व्वतेन्द्रतनया वो युष्मान् पायात्, किं कुर्वती महिषं महिष-
तनुभृतं दानवं निघ्नती, महिषतनु बिभर्तीति क्विबन्तः, गजादिरूपपरित्यागात्
पुनर्महिषतामापत्नमित्यर्थः, कया वामपार्ष्या मायावित्वात् कूटयोधिनस्तस्योपरि
वज्ञया वामनदाघातस्येवोचितत्वात् किविशिष्टं दानवं दृप्तं सगर्वं पुन: कि-
विशिष्टं मृदितत्तनुमदं मृदितस्तनोर्मदो यस्य स तथा तं, पुनः किंविशिष्टं, हे देवि
त्वां धिक्, क्व यासि क्व यास्यसि इति संस्फुरोक्तं स्फुरणं स्फुर: सस्फुरं उक्तं
वचो यस्य स तथा तं, कि तद्वचनं तदाह, स्त्रियः खलु पतिपुत्रबलं भवति, ननु
तत्तव नास्ति, कुतः यत ईशजन्मा कार्तिकेयोऽद्यापि समरं प्रति बाल ( अ ) समर्थ (:)
पुत्रो बालश्च सङ्ग्रामानभिज्ञो भवति, तहि पतिर्भविष्यतीत्याशङ्क्याह, उडुपभृत्
चन्द्रशेखरो भस्मलीलाविलासी, भस्मना लीला तया विलासी शीतल सेवनं भस्म -
लेपश्च तस्य सरुवत्वं रोगसहितत्वं व्यञ्जयतः; तहि गणेशोऽस्तीत्याशङ्क्याह,
नागास्यो गजाननः शातदन्तः नागस्येवाननं यस्य स तथा, शांतो भग्नो दन्तो यस्येति,
महिषेण किल धनुविधातुं तस्य दन्तस्य गृहीतत्वात्, 'शो तनूकरणे' च प्रत्यये, श्रदन्त
 
A
 
इति; अनुं च, स्वतनुकरमदाद्विह्वलोऽपि, स्वं तनुं कृशं करोति इति स्वतनुकरश्चासो
मदश्च तस्मात् अवशिष्टदन्तग्रहण भीत्या विह्वलत्वाच्च नं तवालम्बनं भवितुमर्ह-
१. ज०का० टि० सुरपतिर्भस्मलीलाविलासी ।
 
२. का० पांशुलीलाविलासी; पांशुलीलाभियोग्यो ।
३. ज० दृष्टं; का० दुष्टं ।
 
४. ज० मुदिततनुमदं ।
 
५. का० संस्फुटोंक्तमिति टिप्पणे ।