This page has not been fully proofread.

१२८ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ८० व्याख्या
 
.
 
स्त्री कृता आत्मायेन असो अर्द्धशरीरदानात्, कुतः विरहभवभयात् विरहो
वियोगः तस्माद्भवतीति विरहभवं तच्च तद्भयं च विरहभवभयं तस्मात्, यत एव
शङ्करस्त्यतपुभावो युद्धे नाधिकारी एवेति; अनु च, शौरिः श्रीनारायणोऽपि युद्ध-
भूमि मा व्रजतु, कथं, यतः शौरेर्वक्षसि पद्मवासा लक्ष्मी: अधिशेते प्रधितिष्ठति,
पद्म वासो यस्याः सा पद्मवासेति प्रतिसुकोमलेति व्यज्यते; अन्यच्च, प्रणयकृत-
पदा प्रणयेन कृतं पदं स्थानं यया अनेन स्निग्धया परित्यागो द्योत्यते, वक्षः कि-
विशिष्टं विशालं विस्तीर्णं विशेषतो विशेषाद् वा शालते भजते इति, अतः
उक्त स्त्रिभिर्हेतुभिः शौरेयु द्धानधिकारी दर्शितः, एवं एते त्रयो युद्धक्ष्मां सङ्ग्राम-
भूमि विजहतु त्यजन्तु; अनु च एष शक इन्द्रो द्रागिति शीघ्रं विदिशं विशिष्टां
दिशं प्राचीं वा विदिशं विभागं त्यजतु, श्रथ एष शक्रः, शक्लृ शक्ती शक्त
इति कृत्वा, विदिशं विमार्ग त्यजतु, एतैरसामर्थ्यात्त्यज्यते धनेन तु शक्तेन कथं
त्यज्यते इति उपहासार्थः, अत एते तिष्ठन्तु अहमेवनं हनिष्यामिति उक्त्वा
महिषं निघ्नती, श्रथ एवं दृप्तं यथा भवति तथोक्तिलेशः, महिषं निघ्नतीति
वाक्यार्थः ॥८०॥
 
"
 
}
 
**
 
सं० व्या०-८०. ब्रह्मति । दैत्यानांमिन्द्रो दैत्येंन्द्रस्तमेव दृष्टमालोकितं.
निघ्नती व्यापादयन्ती पार्वती पर्वतसुता वो युष्मान् सुखयतु सुखिन: करोतु
किविशिष्टा एवमित्थं समदा सदर्पा, सह मदेन वर्तत इति विग्रहः कथं समदा
कथं च महिषं निरूपितवती तदाह, ब्रह्मा योगेकतान इत्यादि योगसमाधिस्तानो
विस्तार : योगे एकस्तानो यस्य स योगेकतानो ब्रह्मा ततस्तस्मात् परिव्राजकत्वात्
अधिकृत इति; विरहो वियोगः, विरहाद्भवं विरहभवं तच्च तद् भयं च
विरह ( भव ) भयं तस्माद् विरहभवभयात् हेतोः स्त्रीकृतात्मा येनार्द्धशरीरवान्
स स्त्रीकृतात्मा धूर्जटि: अत एषोऽपि शङ्करस्त्यक्तस्वभावो युद्धोऽनधिकृत
एवेति; वासो यस्याः सा पद्मवासा लक्ष्मोः शौरेविष्णोक्ष उरो
विशालं विस्तीर्णमधिशेते अधितिष्ठति, किंभूता प्रणयकृतपदा प्रत
कृतः पदः प्रदेश: स्वस्थानं यया सा तथोक्ता, तस्मादसावपि त्यज्यते
एवान्यथाऽस्मत्सङ्गन व्यतिकरेणास्या वराक्या नियतं स्थानभ्रंशो भवानीत्य-
भिप्रायेण एष शत्रुर्महिष इमान् परित्यजति परिहरति, इमान् घिग् युद्धभूमि
विजहतु त्यजन्तु इति निन्दत्तान् इमान् त्यजति, कर्मणि धिक् योगे च द्वितीया,
एवमिच्छति एते. ब्रह्मादयो युद्धक्ष्मां विज़हतु युद्धभूमि त्यजन्तु ग्रहमेव महिषं
निहन्मीति भावः, एवं समदा पर्वतीत्युक्तम् ॥८०॥
 
.
 
3.¹
 
'
 
·
 
.