This page has not been fully proofread.

१२६ ]
 
महाकविवाण-विरचितं चण्डीशतकम् [ पद्याङ्क ७८-७९ व्याख्या
 
कृतप्रायं प्रयोगस्तदा किञ्चिदित्यवधार्य, कीदृशं प्रतिविहितरयं प्रतिविहितो रयः
यस्य तत् तथोक्तं; पुनरपि तदेव वक्तु बहुशो विशिनष्टि, ज्वालाधाराकराल
ज्वालाश्च धाराश्च ज्वालाधारास्ताभिः करालं, स्वनितेन कृतं भयं येन तत्
तथोक्तं, दृढाश्री: दृढाः श्रियो यस्येति विग्रहः, दैत्यमायाविलावि दैत्यानां माया
दैत्यमाया तां विलावितुं शीलमस्येति दैत्यमायाविलावीति ताच्छील्ये णिनिः,
श्रयमर्थ: ज्वालाधाराकरालमित्यादिविशेषविशिष्टमपि वैष्णवं चक्रं प्रति-
विहितरयस्त्वात् यत्र सहिषे किञ्चित् कर्तुं न शक्तमिति ॥७८॥
गाढावष्टम्भपादप्रबल भरनमत्पूर्व्व कायाद्ध भागं
 
.
 
९. का.टि. प्रचुर ।
२. का. संजातशिक्षं ।
 

 
दैत्यं निर्ज्ञातशिक्षं जनमहिषमिव न्यक्कृताग्रयाङ्गभागम्' ।
आरूढा शूलपाणिः कृतविबुधभयं हन्तुकामा सग
देयाद्वश्चिन्तितानि द्रुतमहिषवघावाप्ततुष्टिर्भवानी ॥७६॥
कु. वृ. - भवानी भवपत्नी वो युष्मभ्यं चिन्तितानि वाञ्छितानि देयात्,
किविशिष्टा, द्रुतं शीघ्रं महिषवधेन अवाप्ता प्राप्ता तुष्टि: सन्तोषो यया सा
तथोक्ता, किंभूता, महिषं दैत्यमारूढा. किमवस्था सती, शूलपाणिः शूलं पाणी यस्याः
सा, किंभूता, हन्तुकामा हन्तु कामयते इति हन्तुकामा, हन्तु काममनसोरपीति
म-लोपः, किंभूतं दैत्यं, सगर्ध्वं ; श्रन्यच्च, कृतविबुधभयं कृतं विबुधानां भयं येन
स तं, किंभूतं, कायस्य अर्द्धभाग: कायार्द्धभाग: पूर्वश्चासौ कायार्द्ध भागश्च पूर्व-
कायार्द्धभागः, गाढोऽवष्टम्भोऽवष्टम्भावधिर्यस्य स चासौ पादश्च तस्य प्रबल: बहुर्यो
भरः तेन नमन्पूर्वकायार्द्धभागो यस्य स तं, कथम्भूतं तं, निर्ज्ञातशिक्षं निश्चितं
ज्ञाता शिक्षा येन स तथा तं, यो हि निर्ज्ञातशिक्षो (39a ) भवति स आरोहणकाले
नमितपूर्वकायार्द्धभागो भवत्येव अत एव न्यक्कृताग्रचाङ्गभागमिति न्यक्कृतो-
इंग्रचोऽग्रिमोऽग्रच।ङ्गभागो यस्य स तं, कमिवारूढा जनमहिषमिव प्राकृत महिषमिव
रोहणकाले पादपातेन साम्यमापाद्य प्राकृतमहिषेण विशेषितवान्; उपमालङ्कारः
 
॥७६॥
 

 
३. का.टि. प्राकृताग्र्याङ्गभागम् ।
 
४. ज. कृतविबुधरुपं ।
 
1
 
५. का. हन्तुकामं ।
 
६. ज. सगर्वा ।
 
७. ज. ० पुष्टिभंवानी ।
 
*
 
'