This page has not been fully proofread.

[ १२५
 
कपालमाला तां ब्रह्मरणा च सहायोन्यस्य परस्परस्यासङ्गमालिङ्गनं अन्योन्या-
सङ्गस्तेन गाढो दृढः स चासौ व्यतिकरश्चान्योन्यासङ्गगाढनिमीलनं तेन दलित-
पूर्वी पश्चात् ( भ्रष्टाम् ) ॥७७॥
 
पद्या ७७-७८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 

 

 
ज्वालाधाराकरालं ध्वनितकृतभयं यत्र कर्त्तुं न शक्त
 

 
· चक्र विष्णोदृढास्थि प्रतिविहितरयं दैत्यमायाविलावि ।
क्षुण्णस्तस्याऽस्थिसारो विबुधरिपुविभोः पादपातेन यस्या
रुद्राणी पातु सा वः प्रशमितसकलोपद्रवा निर्विघातम् ॥ ७८॥
 
7
 
कु. वृ. - सा रुद्राणी रुद्रभार्या वः पातु, किंभूता, प्रशमितः सकल उपद्रवो यया
सा तथा, निर्विघातं निर्विघ्नं यथा भवति तथा सा का, यस्याः पादपातेन तस्य
विदुधरिपुविभोर्महिषस्य अस्थिसार : क्षुण्णः पिष्टः, प्रस्थीत्येव सारः, श्रथवा अस्थ्नः
सारो मध्यं यत्र, विबुधरिपुविभोः विष्णोश्चक्रं कत्तु छेत्तु न शक्तः नः प्रभुः
कथंभूतं चक्रं, ज्वालाभिविशिष्टा धाराः ताभिः करालं; अन्यच्च, ध्वनितेन कृतं
भयं येन तत्; अन्यच्च, दृढा: समर्थाः अस्थयो यत्र तत्; पुनः किंभूतं प्रतिविहितो
निराकृतो रयो यस्य तत्; पुन: किंभूतं दैत्यमायाविलावि दैत्यानां मायां
• विलुनातीत्येवं शीलम् ॥७८॥
 
.
 
.
 
m
 
१. का.टि. स्वनितकृतभयं ।
२. का. यं प्रभेत्तुं न शक्त ।
३. ज. दृढाश्रि; का, ०दृढात्रि ।
 
४. का.टि. सृति विहितरयं प्रतिविह्तरयं ।
 
५. का. दैत्यमालाविनाशि ।
 
}
 
सं० व्या० - ७८. ज्वालेति ॥ रुद्राणी रुद्रपत्नी वो युष्मान् पांतु रक्षतु,
किविशिष्टा, प्रशमितसंकलोपलवा, उपप्लव उध्वान्तः, प्रशमितः सकलोपप्लवो
यया सा तथोक्ता, निर्विघातं निर्विघ्नं यथा भवत्येवं, प्रशमित इति क्रिया-
विशेषणं; यस्याः पादपातेन तस्य विबुधरिपुविभोर्महिषस्यास्थिसार : प्राणो जीवः
क्षुण्ण: पिष्टसार इति स्थितोऽथ उच्यते, तस्यास्थिशब्देन कर्मधारयः यथा खदिर-
सार इति; विबुधा देवास्तेषां रिपवोऽसुरा विबुधरिपूणां विभुविबुधरिपुविभुः यंत्र
'विवुधरिपुविभोविश्णोश्चक्रं कत्तु छेत्तु न शक्तमत्र कृते विशेषश्चिन्त्यः अथ
 
,
 
६. का. विबुधरिपुपतेः ।
 
७. ज. का. प्रशमितसकलोपलवा ।