2023-02-24 17:17:48 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क ७६ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
भद्रो भ्रू चापमेतच्छमय मम रुषा' विस्फुरन्न बाणं
नाहं केलौ रहस्ये प्रतियुवतिकृताऽऽख्यातिदोषः पिनाकी ।
देवी सोत्प्रासमेवं धृतमहिषतनु दृप्तमन्तःसको प
3
देवारिं पातु युष्मानतिपरुषपदा निघ्नती भद्रकाली ॥७६ ॥
[ १२३
कुं. वृ. - भद्रकाली युष्मान् पातु, किं कुर्व्वती, देवारि निघ्नती, किंभूतं घृतमहिषतनुं,
पुन: किं विशिष्टं दृप्तं गर्विष्ठं; प्रन्यच्च, अन्तः सकोपं अभ्यन्तरसक्रोधं, किंविशिष्टा
देवी प्रतिपरुषपदा प्रतीवकठोरपदा, किविशिष्टं महिषं, एवं देवीसोत्प्रासं देव्यां
सोत्प्रासं सोपहासं, एवमिति कि, हे भद्रे ! एतदभ्रू चापं शमय शान्ति नय, कथं-
भूतं भ्रूचापं, मम मत्सम्बन्धिन्या रुषा कोपेन विस्फुरन्नेत्रमेव वाणो यस्मिन् तत्,
यतोऽहं पिनाकी न, किंभूतः पिनाकी रहस्ये केलौ एकान्ते क्रीडायां प्रतियुवति-
कृताख्यातिदोषः, प्रतियुवतेः कृता या प्राख्याति: वाख्यानं नामग्रहणं स एव
दोषो यत्र स तथोक्तः ॥७६॥
सं० व्या० - ७६. भद्रे भ्रूचापमिति ॥ महिषस्य तनुर्महिषतनुघृता येन
स तथोक्तः तं धतृमहिषतनुं सुराराति निघ्नती व्यापादयन्ती भद्रकाली वो
युष्मान् पातु रक्षतु, किंभूता प्रतिपरुष (पदा) प्रतीवरुषं निष्ठुरं पदं यस्याः सा
तथोक्ता, किंविशिष्टं सुराराति एवमित्थं सोत्प्रासं सोपहासं दृप्तं दप्पिष्ठं प्रत
सोपं अभ्यन्तरे सक्रोधं, कथं सोत्प्रासमिति तदुच्यते, भद्रे ! भ्र चापमित्यादि,
रेव चापं नेत्रमेव वाणं, भद्रे कल्याणि ! उपशमय उपसंहर बारगं, नाहं पिनाकी
शङ्करः, कीदृशो यः प्रतियुवतिकृताख्यातिदोषः, प्रतियुवतेः कृता ख्यातिः कीर्तिः
सैव दोषो यस्य स प्रतियुवतिकृतांख्यातिदोषः कृतगोत्रस्खलन इत्यर्थः क्व रहस्ये
केलो एकान्ते, भावे भावः परिहासस्तस्मात् भ्रूचा पमिदं शमयेति संबन्धः ॥७६॥
अन्योन्याऽऽसङ्गगाढव्यतिकर दलित भ्रष्टकापालमालां
,
स्वां भोः संत्यज्य' शम्भोः' खुरपुटद लितप्रोल्लसद्धूलिपाण्डुः ।
भद्र' ! कोडाभिम तव सविधमहं कामतः प्राप्त ईशो-
ऽत्रैवं सोत्प्रासमव्यान्महिषसुररिपुं निघ्नती पार्व्वती वः ॥७७॥ -
१. का. भ्रूचापमेतन्नमयसि नु वृथा; शमयसि तु रुषा, शमय मम चेति पाठान्तरद्वयमपि
सूचितम् । ज शमयसि तु रुपा । २. का. टिप्पगे, महिषितवपुषं ।
३. ज. सकोपात् ।
६. का. शम्भो ।
४. का. टि. ० कापालमालं । ५. का. टि. स्वाङ्ग विग्यस्य ।
७. कां. क्रीडाभिमर्दी ।
'