This page has not been fully proofread.

१२२ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ७५ व्याख्या
 
गङ्गासम्पर्कदुष्यत्कसनबनसमुद्भूतधूली विचित्रो'
वाञ्छासम्पूर्णभावाद धिकतररस तूर्णमायान् समीपम् ।
क्षिप्तः पादेन दूरं वृषग इव यथा वामपादाभिलाषी
देवारिः कैतवाऽऽविष्कृत महिषवपुः सावतादम्बिका वः ॥ ७५॥
 
कुं. वृ. - सा श्रम्बि (का) जगदम्बिका वो युष्मान अवतात्, सा का, यया देवारि-
र्देववैरी पादेन' दूरं क्षिप्तः, क इव वृषग इव हर इव, किंभूतो देवारिः कैतवेन
आविष्कृतं प्रकटीकृतं महिषवपुर्येन स तथा, कथं यथाः भवति, श्रधिकतररसं
यथा भवति तथा अधिकतरस्वेच्छं यथा भवति, किं कुर्च्चन, तूर्णं वेगेन समीपं
छायान् सविधमागच्छन्, कस्मात् वाञ्छासम्पूर्ण भावात् वाञ्छासम्पूर्णतया;
किविशिष्टो महिषः, गङ्गासम्पर्केण प्रवगाहनेन दुष्यत् विकृति गच्छत् यत्
कमलचनं तस्मात् समुद्भूतो यो धूलिः परागस्तेन विचित्र: कबुरः; ह्रपक्षे, गङ्गा-
सङ्गविलुलितः कमलवनधूलिधूसर :, इदमेव कोप कारण; महिषपक्षे, वाञ्छा
सम्पूर्णभावात् इति योज्यं; किविशिष्ट: महिषः, वामपादाभिलाषी वामश्चासो
पादः तत्र अभिलाषी च वामपादाभिलाषी पादाकर्षणाभिलाषी, अथवा वामपादात्
मृत्युं अभिलपतीति कृत्वा ; ईश्वरपक्षे, प्रसादयितु वामेन वक्रेण पादाभिलाषी
वामग्रहणं मूर्ध्न उपलक्षणं, स्त्रैणे कर्म्मणि तस्य वक्रस्य प्राधान्यात् अथवा
स्त्रिया वामपादप्राधान्यात् वामपादाभिलाषीति ॥७५॥
 
X
 
Ž
 
...
 
सं. व्या. - ७५. गङ्गेति ॥ सा अम्बिका गौरी वो युष्मान् वतात् रक्षतु, यया
देवारि रं वृषग इव पादेना घ्रिणा क्षिप्तः प्रेरितः; किंविशिष्टो देवारिः, कैतवा-
विष्कृतमहिषवपुः, कैतवेन शाठ्येन आविष्कृतं प्रकटीकृतं महिषवपुर्येन सःः तं
तथोक्त, किभूतो हो-महिषश्च, वामपादाभिलाषी वामश्चासो पादश्च वामपाद--
स्तमभिलषितुं शीलमस्य एवं वामपादाभिलापी, प्रसादयितुं तुलगितकाम
 
इत्यर्थः, यो भवो महिपश्च किमकरोत्, तूर्णं क्षिप्रातः समीपमन्तिकः कुतो
वाञ्छा संपूर्ण भावात् इच्छाया: परिपूर्णत्वात् कथं [भावा]धिकतररसं अधिक
तररसः शृङ्गारादिकोपावेगाद्यथा भवत्येवं, कथंभूतः शम्भुर्महिषश्च प्रान्
गङ्गासम्पर्कदुष्यत्ः कमलवनसमुद्र लघुली विचित्रः, कमलानां वनं कमलवनं कमल-
वनसंपर्केण संयोगेन दुष्यत् विकृति गच्छत् संपर्कावष्यत् तच्च तत् कमलवनं
च सम्पर्कदुष्यत्कमलवनं गङ्गायाः सम्पर्कदुष्यत् कमलवनं तेन समुद्र ता.
समुत्क्षिप्ता सा: चासो धूली च तयाः विचित्रः कर्वुरः ॥ ७५ ॥ः
 
!
 
१. का. समुद्भूतवूलीविचित्रो ।
 
$
 
*
 
:
 
(
 
.