This page has not been fully proofread.

.
 
पद्या ७३-७४ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्ति समेतम्
 
[ १२१
 
- यथा पाषाणे निपतितं चक्रं रथाङ्गं चक्रायुधस्य हरेः क्वणति शब्दायते रोमाणि
नाच्छिनत्तीत्यभिप्रायः, स्थाणोः शङ्करस्य बाणश्च लेभे लब्धवान् प्रतिघातं यस्य
चर्मणा श्रजिनेन तत्, उरुरणा विस्तीर्णेन चर्मणेव संनाहेनेव यथा वर्मणा बाणा:
प्रतिहन्यन्ते न यथास्य चर्मणापीत्यर्थः ॥ ७३ ॥
 
कृत्वा वक्त्रेन्दु बिम्बं चलदलकलसद्भ्र लताचापभङ्गं
क्षोभव्यालोलतार स्फुरदरुणरु चिस्फारपर्यन्तचक्षुः ।
सन्ध्यासेवापराधं भवमिव पुरतो वामपादाम्बुजेन
 
क्षिप्रं दैत्यं क्षिपन्ती महिषितवपुषं पार्व्वती वः पुनातु ॥७४॥
 
कं वृ. - पावंती वः पुनातु पवित्रीकरोतु, किं कुर्व्वती, पादाम्बुजेन पुरतोऽग्रतः
दैत्यं क्षिपन्ती, कथंभूतं महिषितवपुषं, कमिव भवमिव, किंभूतं भवं, सन्ध्या सेवा-
पराधं सन्ध्यासेचैव अपराधो यस्य स तं, यथा सांपराधं भवं पादाम्बुजेन क्षिपति,
किं कृत्वा, वक्त्रेन्दुबिम्बं एवंविधं कृत्वा, एवंविधं किमित्याह, किविशिष्टां चल--
दलकलसत् चलदलकैः सकाशात्, पुनः किंभूतं, भ्रू रेव लता सैव चापं भ्रूलता-
चापं तस्य भङ्गो यत्र तत्; अन्यच्च, क्षोभेण महिषव्यतिकरेण व्यालोले चञ्चले
तारे कनीनिके यत्र तत्; अन्यच्च स्फुरन्ती अरुणा श्रारक्ता रुचिर्यस्य तत्,
किं विशिष्ट, स्फारपर्यन्ते चक्षुषी यंत्र ( 38a ) तत्, भवं क्षिपन्तो अपि वक्त्रेन्दुबिम्बं
ईर्ष्यया एवंविधं करोति, इन्दोरपि एतद्धर्म्मसादृश्यादुपमानम् ॥७४॥
 
>
 
सं. व्या. - ७४. कृत्वेति ॥ पार्वती पर्वतपुत्री वः युष्मान् पुनातु पवित्रीकरोतु,
कि कुर्वती महिषितं वपुर्येन स महिषितवपुस्तं दैत्यं दितिजं क्षिप्रं शीघ्रं क्षिपन्ती
प्रेरयन्ती, पुरतो अग्रतः, केन वामपादाम्बुजेन वामश्चासौ पादश्च वामपादः वामपाद
एव अम्बुजं वामपादाम्बुजं तेन, कमिव यथा भवं शङ्करं वामचरणकमलेन क्षिप-
त्येवं महिषं क्षिपत्ती, किविशिष्टं भव संध्या सेवापराद्धं, सन्ध्यायाः सेवा सन्ध्या-
सेवा तयाऽपराद्धं कृतापराधं, वक्त्रमेव इन्दुबिम्बं भूलते एव चापे भ्रूलताचापे
तयोर्भङ्गो भ्रूलताचापभङ्गः, चलदलकेषु लसद् भूलताचापभङ्गो यत्र तच्चलदल-
कलसद्भ्रूलताचापभङ्गं वक्त्रेन्दुबिम्बं वदनचन्द्रमण्डलं कृत्वा विधाय क्षिपन्ती;
पुनरपि किविशिष्ट क्षोभव्यालोलतारस्फुरदरुण रुचिस्फा रपर्यंतचक्षुः क्षोभेण
व्यालोले चञ्चले तारके यत्र तत् तथोक्तं, स्फुरिता अरुणा आरक्ता रुचिः कान्तिर्य
योश्चक्षुषोस्ताभ्यां स्फुरदरुणरुचिनी स्फारपर्यन्ते चक्षुषी यस्येति विग्रहः ॥ ७४ ॥
 
१. का. कोपाव्यालोलतारमिति पादटिप्पणे । २. ज. का. सन्ध्यासेवापारार्द्ध ।
 
*