This page has not been fully proofread.

पद्याङ्क ६९-७० व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
7
 
भार्या तस्माः विक्रमे अतिशयोक्ती, किं कृत्वा विस्मितं, इत्युक्त्वा एवमभिधाय,
कथं तदुच्यते देवारेरित्यादि, हे भगवन् हे शङ्कर असो पद्मसद्मा देवारेदेवशत्रोः
महिषस्य महिषछद्मनः मायामहिषात् द्रुतं क्षिप्रं इह विद्राति पलायति ( ते ) ग्लायति
· अत्र तव किं चित्रं आश्चर्यं अपि तु न किमपि, भवन्नाभिजातो यतः सा, हे भगवन्
शङ्कर इत्यध्याहार्य, साहचर्यात् नाभेजतो नाभिजातो यस्मात् स, कस्य नाभिजातो
दानवारेविष्णोस्तस्य दानवारेन भिजातस्य शत्रुभावत्वात्तदर्भयमुपपद्यते एव इति
भावः, न केवलं ब्रह्मणो भीतो नान्यात् सकाशात् भूतः स्वयंभूरिव त्वं पुनर्यंत्
यस्मात् समरभुवि नाभिभूः, प्रतो विस्मिताऽहं, अत्र पक्षेऽतीतेऽपि तु भीत इति द्वो
'प्रतिषेधो प्रकृतमर्थं गमयत: प्रत्राद्यमिति शब्दद्वयं उभयवाक्यसमाप्तौ द्रष्टव्यं
तृतीयस्त्वेवमर्थमिति ॥ ६६ ॥
 
* चतुर्दिक्षु क्षिपन्त्याश्च लितकम लिनीचारु कोशा भिताम्र
 
मन्द्रध्वानानुयातं झंटिति वलयिनो मुक्तबाणस्य पाणेः ।
चण्ड्याः सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्या जयन्ति
 
[ ११७
 

 

 
}
 
त्र्युटयन्तः पीनभागे स्तनचलनभरात्' सन्धयः कञ्चुकस्य ॥७०॥
कं वृ. - चण्ड्याः कञ्चुकस्य सन्धयो जयन्ति, स्तनचलनभरात् स्तनयोश्चलनं
स्तनचलनं तस्मात् भरो गुरुत्वं तस्मात् पीनश्चासौ भागश्च पीनभागस्तस्मिन्
पीनभागे उपरितनभागे त्रुटयन्तः किविशिष्टाया: चण्डया:, सुररिपुषु देवशत्रुषु
शरान् प्रेरयन्त्याः क्षिपन्त्याः, कथं यथा भवति सव्यं च अपसव्यं च सव्यापसव्यं
तद्यथा भवति तथा क्रियाविशेषणानां एकवद्भावो नपुंसकत्वं च, पुनः किं कुर्वन्त्या
दिक्षु चक्षुः क्षिपन्त्याः, किंभूतं चक्षुः चारुश्चासो कोशश्च चारुकोशः, कम-
लिन्याश्चारुकोशः कमलिनीचारुकोशः, चलितश्चासो कमलिनीचारुकोशश्च
चलितकमलिनीचारुकोशः तद्वदाता, कथं शरानु क्षिपन्त्या, पाणेर्मन्द्रध्वानानु-
यातं यथा भवति तथा, मन्द्रध्वानानुगतं यथा भवति तथेत्यर्थः, किंभूतस्य पाणेः,
भटिति मुक्तवाणस्य शीघ्रं मुक्तशरस्य, पुनः किंभूतस्य, वलयानि विद्यन्ते यस्मि-
निति वलयी, तस्य वलयिनः ॥७०॥..
 
1
 
*T
 
१. ज. का. स्तनवलनभरात् ।
 
m
 
* जयपुर संग्रहस्थायां प्रती श्लोकोऽयं व्युत्क्रमेण ७१ संख्यायां लिखितः, काव्यमाला •
 
प्रतावपि संख्याऽस्य ७१ एव ।