This page has not been fully proofread.

"
 
१२६ ]
 
महाकविवाण-विरचितं चण्डीशतकम् [ पद्याङ्क ६८-६९ व्याख्या
 
4
 
धाम तेजो यस्य स यामिनीधामा कृष्णप्रभ इत्यर्थः, यस्मिन् यमिनीधाम्नि महि
प्रांशुत्वात् सप्तयोऽश्वाः सप्त तपन भृतः श्रादित्यस्य श्रमार्ता इव विश्राम्यन्ति खेदं
मुञ्चन्ति, रात्री किन्न भानोरश्वाः विश्राम्यन्तीति भावः, यत्र महिषे रजनीतेजसि
स्थितिमुषि अवस्थितिहानी सप्तापि लोकाः सुप्ता: शयिताः निर्व्यापारीभूता
इत्यर्थः ॥ ६८ ॥
 
देवारेर्दानवारे' द्रुतमिह महिषच्छद्मनः पद्मसंझा
 
a
 
विद्रातीत्यत्र चित्रं तव किमिति भवन्नांभिजातो यतः सः ।
नाभीतो ऽभूत्स्वयम्भूरपि' समरभुवि त्वं तु यद्विस्मिताऽस्मी -
त्युक्त्वा तद्विस्मितं वः स्मररिपुमहिषी विक्रमे ऽव्याज्जयायाः ॥६६
 

 
कुं॰वृ॰—जयायाः विस्मितं विस्मयोऽव्यात्, क्व स्मररिपुमहिषी विक्रमे स्मररिपो-
महेश्वरस्य महिषी तस्या विक्रमस्तत्र विक्रमे, कि कृत्वा इति उक्त्वा इति अभिधाय,
इतीति कि, हे दानवारे ! विष्णो ! यत् पद्मसद्मा इह सङ्ग्रामे द्रुतं शीघ्र महिष-
च्छद्मनो मायामहिषात् देवारे : संकाशात् विद्राति पलायते इ [ 37a]त्यत्र तव
किमिव चित्रं अपितु न किमपि, यतः स पद्मसद्मा भवन्नाभिजातः भवतो नाभि-
र्भवन्नाभिस्तस्या जातो भवन्नाभिजातः, अत्रायमभिसन्धिः, दानवानां रिविष्णु-
स्तन्नाभिजातत्वात् ब्रह्मणो देवारेः सकाशाद्भयं भवत्येव, हे विष्णो ! अत्राहं
विस्मिताऽस्मि यतो न केवलं स्वयम्भूर्ब्रह्मा नाभीतोऽभूत् नु पुनः समरभुवि
त्वमपि स्वयम्भूरपि नाभीतो भूः प्रत्र नाभीशब्दश्छलास्पदं, ब्रह्मपक्षे नाभीतो
नाभिसकाशात्, पंञ्चम्यास्तस्य तसिलिति तसुप्प्रत्ययान्तं, विष्णुपक्षे न भीतोऽभीतः
न अभीतः किन्तु भीतं इत्यर्थः, महिषवदिति यावत्, द्वौ नत्रौ प्रकृतमेवार्थं गमयतः
 

 
॥६६॥
 
सं.व्या. - ६९. देवारेरिति ॥ जयया गौरीप्रतीहार्या यद्विस्मितं स विस्मयः वो
युष्मान् अव्यांत् पातु, क्व विस्मितं स्मररिपुमहिषीविक्रमे स्मररिपोर्या महिषी
 

 
१. का. दानवारे:
 
२. का. नो भोतो ।
 
३. का. स्वयंभूरिव ।
 
४०५. का, विस्मितास्मांस्त्यवत्वा ॥ विस्मितासीत्युक्त्वा चेति पाठान्तरं पादटिप्पण
 
तिम् ।
 
६. 'जया वः' इति का प्रती टिप्पणे ।