This page has not been fully proofread.

पद्याङ्क ६७-६८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ ११५
 
..इत्युक्त्वा एवमभिवाय, क्व मातुर्महिषवधमहे जनन्या महिषवधमहोत्सवे, कथमभि-
धाय तदुच्यते, भूषां भूयस्तवेत्यादि, कुञ्जरानन ! तवैको ( तवैकस्मिन्) विषाण:
(विषाणे) तत्र दैत्येन महिषितवपुषा महिषाकृतिशरीरेण दर्षात् भग्ने सति कि
विषण्णो विद्राणः, भूयः पुनस्तवाद्य अधुना शोभां भूषां द्विगुगतरं तथा भवत्ये
वमेषोऽहं दातुमेव लग्न इति ॥ ६७ ॥
 
विश्राम्यन्ति श्रमार्ता इव तपनभृतः सप्तयः सप्त यस्मिन्
 
सुप्ता: सप्ताऽपि लोकाः स्थितिमुषि महिषे यामिनीधाम्नि यत्र ।
धाराणां रौधिरीणामरुणिमरभसा' सान्द्रसन्ध्यां दधान-
स्तस्य ध्वंसात्सुताद् र परदिनपतिः पातु वः पादपातैः ॥६८॥
 
कं. वृ. अद्रेः सुता वः पातु, कि विशिष्ट अपर दिनपतिः, दिनपतिरेव दिनपतिः
अपरश्चासौ दिनपतिश्च अपर दिनपतिः, किविशिष्टा पादपातैश्चरणप्रहारैस्तस्य
महिषस्य ध्वंसात् सान्द्रसन्ध्यां दधाना, सन्धौ भवा सन्ध्या सान्द्रा चासौ सन्ध्या
 
*.
 
F
 
.
 
च सान्द्रसन्ध्या तां, महिषप्रादुर्भावरात्रिस्तद्विनाशं प्राप्य प्रकाशदिनलक्षणां, केन
रोधिरीणां धाराणां अरुणिमरभसा रुधिरस्य इमा रोधिर्य: तासां, अरुणस्य
भाव: अरुणिमा तस्य रभसा यस्मिन् महिषे सप्त सप्तयः सप्त सूर्याश्वाः विश्रा-
म्यन्ति रविमार्गावरोधात् चलितुं न शक्नुवन्ति, किंभूताः तपनं सूर्यं बिभ्रतीति
तपनभृतस्तस्य, उत्प्रेक्ष्यन्ते, श्रमार्ता इव खेदं प्राप्ता इव; अन्यच्च, यत्र सप्ताऽपि लोकाः
सुप्ता इव तद्व्यापारहरणात्, किंविशिष्टे महिषे स्थिति मुष्णातीति स्थितिमुट्
तस्मिन् स्थितिमुषि, सूर्यादीनां स्वस्वाधिकार स्थितिः, पुनः किभूते यामिन्या धामेव
घाम यस्य स यामिनीधामा तस्मिन् यामिनीघाम्नि, दिनपतिरपि पादपातैः किरण-
प्रसारैः यामिनीं विध्वस्य अरुणां सान्द्रसन्ध्यां विदधाति, यत्र यामिन्यां सूर्य्यवाहा
विश्राम्यन्ति यामिन्यपि स्थितिमुद् इति लोकव्यापारहारिणी भवति ।
 
7
 
.
 
.सं.व्या. ६८. विश्राम्यन्तीति ॥ प्रपरश्चासौ दिनपतिश्च अपरोऽङ्कः, अद्रेः सुता
पर्वतपुत्री वो युष्मान् पातु रक्षतु, कि कुर्वन् श्रपरदिनपतिः दधानो धारयन् नभ:-
. सान्द्रसंध्यां सान्द्रा घना चासो संध्या च सान्द्रसन्ध्या नभसि सान्द्रा संध्या सान्द्र-
संध्यानंभ: सान्द्रसन्ध्यानां क्व सति, रोधिरीणां धाराणां अरुणिमति अरुणे सति,
कुतो रोधिरीणां धाराणां इति तस्य यामिनीधाम्नो महिषस्य ध्वंसात्, कै: पाद-
पात: चरणपाते: अन्यत्र किरणपातैः, सत्रिविध्वंसात्, यामिनी रात्रिस्तस्या इव
 
१. ज. का. रोधिरीणामरुणिमनि नमः ।
 
r