2023-02-24 17:17:46 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क ६५-६६ व्याख्या ] मंदपाटेश्वर कुम्भकर्णकृत-वृत्ति समेतम्
[ ११३
सं.व्या. ६५. चक्रमिति ॥ सा पार्वती वो युष्मान् अवतात् रक्षतु यथा रिपुर्महिष-
लक्षणो अवधि हतः, कि कुर्वन् न्यक्कुर्वन् नाकलोकं स्वर्गजनं, कथमित्येवं तदुच्यते
चक्रं शोरेरित्यादि, शौरविष्णोश्चक्रं रथाङ्गं प्रतिहतं प्राक् पूर्वं प्रतीपमगमत्
विपरीतं गतं, द्यु॒धाम्नां दिवौकसां पुनश्चक्रं बलं प्रतिहतं पश्चात् प्रतीपं गतं,
बलारेबलशत्रो सम्बन्धि चापं धनुर्न परं केवलं ऋगुणतां निर्गुणत्वमाप पूस्त्रय-
प्लोषिणोऽपि त्रिपुरदंहनस्य अपि कामु कमविद्यमानगुणत्वं प्राप्तं, जगदपि मां
शक्त्या सामर्थ्येन विजेतुं नालं न समर्थ, षण्मुखे कार्तिकेये शिशौ बाले विजये का
कथा, श्रपि तु न कदाचिदपि ॥ ६५ ॥
विद्राणे रुद्रवृन्दे सवितरि तरले वज्ज्रिणिध्वस्तवज्
जाताssशङ्क शशाङ्क विरमति मरुति त्यक्तवैरे कुबेरे ।
'वैकुण्ठे कुण्ठितास्त्र महिषमतिरुषं पौरुषोपघ्ननिघ्नं
.
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥६६॥ '
कुं.दृ. - भवानी पार्वती वो दुरितं शमयतु, किविशिष्टा भूरिभावा भूरयो
भावाः सात्विकाद्या यस्याः सा भूरिभावा, कथंभूता भवानी महिषं निघ्नती, कथं
निघ्नती निर्विघ्नं विघ्नरहितं यथा भवति तथा, अनेनंतदुक्त भवति, प्रतिकोपवता
महिषेण निघ्नत्या देव्या न कश्चिदपि विघ्नः कत्तु शकत इति तत्र रुद्रादिदेवेषु
योद्ध मुख्येषु सत्सु स्त्रीत्वात् भवान्या महिषव्यापादने कोऽधिकार इति, चेत् तदाह,
रुद्राणां वृन्दं रुद्रवृन्दं तस्मिन् विद्राणे सति पलायिते सति, कथं सखेदं, सवितरि
सूर्ये तरले सति प्राकुले सति, वज्ञिणि इन्द्रे ध्वस्तवज्ज्रे सति ध्वस्तं वज्ज्वं
यस्मात् येनं वा स तस्मिन्, शशाङ्क चन्द्रे जाताशङ्के जाता आशङ्का यस्य, स
जाताशङ्कः तस्मिन्, मरुति वायौ सङ्ग्रामाच्च विरमति प्रदर्शनं गच्छति सति,
कुवेरे धनदे त्यक्तवैरे, व्यक्त वैरं येन स त्यक्तवरस्तस्मिन् वैकुण्ठे हरो
#
.
*
कुण्ठितास्त्र भग्नधारास्त्रे, किंभूतं महिषं प्रतिरुषं अधिककोपं, पौरुषोपघ्ननिघ्नं
पौरुषस्य उपनः श्राश्रयः तेन [36b] निघ्नः परवशः पौरुषोपघ्ननिघ्नस्तं पौरुषो-
पघ्ननिघ्नम् ॥६६॥
सं.व्या. - ६६. विद्राण इति ॥ भवानी भवपत्नी वो युष्माकं [दुरितं ] श्रनिशं
शमयतु नाशयतु, किंविशिष्टा भूरिभावा, भूरिश: प्रचुरो: भावाः यस्याः सा तथोक्ता,
यथा भारते मुनीनां [भरतमुनिनां] रसप्रवत्तिनो भावा रसाष्टी प्रकीर्तिताः
भावाश्चैकोनपञ्चाशत्स्थायिसञ्चारिसात्विका इति, कि कुर्वती भवानी महिषं
१. सरस्वतीकण्ठाभरणे शाङ्गवरपद्धतावपि च पञ्चमिदमुपलभ्यते ।