This page has not been fully proofread.

पद्याङ्क ६३-६४ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
सं० थ्या० - ६३. नान्दोशोत्सार्येति ॥ उमा गोरी वो युष्मभ्यं शर्म सुखं
दिश्यात् ददातु, कि कुर्वाणा चुम्व्यमाना, नेदीयो यो निकटतरं जामातुरिति
प्रकृतेन सम्बन्ध: न तु शङ्करं प्रधानमदृष्ट्वैव किमिति पूर्वमेतावन् मेनया गौरी
सम्भावितेति तदुच्यते मातृमध्यापगमपरिहृतदर्शने इति, मातृ णां ब्रह्माणीप्रभू-
तोनां मध्ये तस्योपगमनं तस्मात् परिहृते त्यक्ते सति दर्शने जामातुः शङ्करस्य
नेदीयो, गौरी चुम्व्यमानेति एतेन नीतिप्रतिपादिते सति, कि कुर्वत्या मेनया
चुम्व्यमाना नुवत्या स्तुवत्या, कि नान्दीशोत्सार्यमाणा अपसृतिसमनमन्ना किनृत्यं
नुवत्या, नान्या वाद्य विशेषस्य ईशः प्रभुः नान्दी शोभनन्दी तेन उत्सार्यमाणा,
अपसृतिनमन् अपसरणेन सह नमन्तो ये नाकिनो देवास्तेषां नृत्यं नर्तनं नुवत्या
स्तुवत्या, कि कृत्वा चुम्व्यमाना अवलम्व्य श्रादाय हस्तं हस्तेन पाणिना नप्तु
र्नप्तृकस्य षण्मुखस्य किंभूतस्य तदनुगतगतेः तस्या मेनाया श्रनुगता गतिर्यस्येति
विग्रहः ॥६३॥
 
भक्त्या भृग्वत्रिमुख्यैमु निभिरभिनुता बिभ्रती नैव गवं
शरणी शर्म्मणे वः प्रशमितभुवनोपप्लवा' सा सदाऽस्तु ।
या पाष्णिक्षुण्णशत्रुर्गलितकुलिशप्रासपाशत्रिशूलं
नाकौकोलोकमेकं॰ स्वमपि भुजवनं संयुगेऽवस्त्वमंस्त ॥६४॥
 
कुं० वृ० - सा शर्व्वाणी शर्व्वस्य भार्या शर्वाणी वः शर्म्मणे सदाऽस्तु,
-
:
किविशिष्टा प्रशमितभुवनोपप्लवा प्रशमितो भुवनस्य उपप्लवः उपद्रवो यया
(36a) सा महिषवधेनेत्यर्थः, किकुर्व्वती भृग्वत्रि मुख्यैर्मु निभिर्भक्त्याऽभिष्टुता
सती गवँ नैव बिभ्रती, भृगुश्च प्रत्रिश्च भृग्वत्री तो मुख्यो येषां ते भृग्वत्रिमुख्याः
तेः; सा का पार्टिणक्षुण्णशत्रुः सती संयुगे सङ्ग्रामे नाकोकोलोकं अवस्तु प्रमंस्त,
या पार्ष्या क्षुण्ण: शत्रुया सां तथाविधा न केवलं एक नाकोकोलोकं अवस्तु
अमंस्त किन्तु स्वं भुजवनमपि अवस्तु मंस्त; कि विशिष्ट लोक गलितकुलिश-
१. ज० का०—प्रशमितसकलोपलवा
 
२. ज०
 
- पार्टिणक्षुण्णशत्रु विगलितकुलिशापास्त शस्त्रीपिनाकं;
 
-
 
का० पाठिणक्षुण्णशत्र विगलितकुलिशप्रासपाशत्रिशूलं; 'नगणितकुलिशप्रासपास्त्री-
पिनाक' मिति विशेषः पाठः पादे प्रदर्शितः ।
 
(
 
३० ज० का० – नाकौकोलोकमेव । 'प्रार्तद्रुतमिति रभसा संयुगे' एषः पाठोऽपि काव्य-
मालाप्रती पादटिप्पणे मुद्रितः ।
 
'