2023-02-24 17:17:45 by ambuda-bot
This page has not been fully proofread.
११० ]
महाकविवाण-विरचितं चण्डीशतकम् [ पद्याङ्क ६२-६३ व्याख्या
इति विग्रहः, पुनरपि किविशिष्टं सोत्प्रासं सह उत्प्रासेन उल्लण्ठनेन वर्तते इति
सोत्प्रासं, कथं हसितहरं एवमित्थं तदुच्यते, हे पिनाकिन् ! मम शृङ्गे विषाणे द्वे,
ऊर्ध्वं दृष्टि: ऊर्ध्वदृष्टिस्तया ऊर्ध्वदृष्ट्या पश्यावलोकय अधिकतर सातिशयं
अतनुः सन् न हतः पुष्पायुधः कामोऽस्मि, न तनुः अतनुः प्रकृश इत्यर्थः कृत् पक्षे
तु न विद्यते तनुः शरीरं यस्यासौ प्रतनुः काम: एतदुक्त भवति, कामः स त्वया
ऊर्ध्वदृष्ट्या विलोक्य दग्धः, अहं तु महिषः, त्वया दग्धुं न शक्य इत्यर्थः, यथेच्छं
मम शृङ्गे पश्येति भावः, पुनर्हे पिनाकिन् ! भवतो भोनें भवति व्यालासङ्गेऽपि
न तव व्यालासङ्गेनापि ममापि भवतो भीर्न भवति, व्याला उदरास्तेषां सङ्गेऽपि,
न यज्ञोऽस्मि, त्वया ध्वंसितो यज्ञः न सोऽस्मि : येन व्याल: सर्पः तस्यासङ्गो
व्यालासङ्गस्तस्मिन्नपि सति नित्यं भवतः त्वत्तः भीर्भयं भवति, नयज्ञोऽस्मि येन
कारणेन नयमहं जानामीति; पिनाकं धनुस्तद्विद्यते यस्येति पिनाकी तस्याऽमन्त्रणं,
हे पिनाकिन् ! त्वं विशेषं तु चक्षुः क्षिप त्वमुच्चरत्यर्थं • पुनरपि वधे
वघनिमित्तं दानवानां पुरोऽहं एकत्र दानवानां दनुसुतानां पुरोऽग्रतः अहं अस्म्यत्र तु
दानवानां पुरस्तिष्ठ इति ॥ ६२ ॥
.
7
...
+
नान्दीशोत्सार्यमाणापसृतिसमनमन्ना किलोक' नुवत्या
नप्तुर्हस्तेन हस्तं तदनुगतगतेः षण्मुखस्यावलम्ब्य ।
जामातुर्मातृमध्योपगमपरिहते दर्शने शर्म्म दिश्या-
न्न`दीयश्च्युम्ब्यमाना' महिषवधमहे मेनया मूर्य॒मा वः ॥६३॥
कुं० वृ० – उमा देवी वो युष्मभ्यं शर्म्म दिश्यात्, महिषवधमहे महिषवध-
महोत्सवे मेनया देवीमात्रा मूर्ध्नि चुम्ब्यमाना, कथं यथा भवति नेदीय: निकटतरं
यथा भवति, नव सति, जामातुर्दर्शने मातृमध्योपगमपरिहृते, मातृ णां मध्यं तत्र
उपगम: श्रागमनं तेन परिहृतं तस्मिन् परिहृते मातृवृन्दमध्योपसरणेन जामाता
तां न दृष्टवान्; किं कृत्वा नप्लुदु हितृपुत्रस्य तदनुगतगते:, किंभूतया नान्दी-
शोत्सार्यमाणापसृतिसमनमन्नाकिलोकं, नुवत्या नान्द्या वाद्यस्य ईश: नान्दीशः तेन
उत्सार्यमाणा या अपसृति: अपसरणं तया: समं समकालं नमन् नति कुन्
योऽसौ नाकिलोकः तं नांकिलोकम् ॥६३॥
१. ज० नाकिनृत्यं ।
२. 'देवी संतुष्यमारणा' इत्यपि पाठः काव्यमालाप्रतौ पाटिप्पणे सूचितः ।
"