This page has not been fully proofread.

पचाङ्क ५६-६० व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १०७
 
मत्याः श्रलज्जितायाः, वव सति त्रिदशरिपुपतो प्रसुरस्वामिनि महिषे निहते सति,
कृतकार्यो हि भटः प्रयुक्तानन्यभटान् उपहसन्नपि लज्जते, इदानीं व्याहृतानि प्रति-
पादयन्निदमाह क्षिप्तोऽयं मन्दराद्रिरित्यादि, मन्दरश्चासावद्रिश्च मन्दराद्रिः
मन्दराद्रिरिव श्रयं महिषः, अत्र विनापि यदिवशब्दरुपमा गम्यते यथाग्निर्माणवक
इत्यादि, श्रयं मन्दराद्रिर्महिष अन्धो समुद्र क्षिप्तो वासुके अहिपते ! भवता त्वया
पुनरपि वेष्ट्यतां परिवार्यतां पूर्ववदिति भावः अत एवोक्त प्रीयस्वानेनेति भने-
नैतेन महिषेन तार्क्ष्य गरुत्मन् ! प्रीयस्व तृप्तो भव, कि ते तव भक्षितर्ना गैः सर्पः
बिसतनुतनुभिः बिसवत्तन्वी तनुर्येषां इति विग्रहः, इमं महिषं हरिकरी ऐरावतो-
इण्टाभिदिग्ग्द्वपेन्द्रैराशाराजगजैः सह न कर्षतीमं महाभारत्वाद्वरिष्ठत्वादिति
 
"'
 
भावः ॥५६॥
 
एष प्लोष्टा पुराणां त्रयमसुदुर पाटनोऽयं नृसिंहो
 
हन्ता त्वाष्ट्रं द्यु राष्ट्राधिप इति विविधान्युत्सवेच्छाहतानाम् ।
विद्राणानां विमद्द दितितनय[मये] नाकलोकेश्वराणा-
यानि कर्माण्यवतु विद्धती पार्वती वो हतारिः ॥६०॥
 
"
 
-
 
कुं० वृ० - पार्व्वती वोऽवतु, किंविशिष्टा हतारिः, किंकुर्व्वती नाकलोकेश्वराणां
नानाविधानि कर्माणि इति प्रश्रद्धेयानि विदधती, श्रद्धाऽणि श्रद्धेयानि; कि
विशिष्टानां पूर्व उत्सवेच्छाहृतानां, उत्सवस्य इच्छा उत्सवेच्छा तया आहृतानां
पश्चाद् दितितनयमये विसर्दे विद्राणानां पलायितानां, दितितनया: प्रधानानि
अस्मिन् कानि तानि कर्माणीत्याह, एष पुराणां त्रयं प्लोष्टा, अयं असुहृदुर:-
पाटनो नृसिंहा; अन्यच्च, एष त्वाष्ट्र वृत्र हन्ता, त्वष्टुरपत्यं त्वाष्ट्र, राष्ट्रा-
धिप इन्द्रः, एतदुक्त भवति हरन सिंहेन्द्र: पुरदाहहिरण्यकशिपोरः पाटनवृत्रहनन-
लक्षणानि कर्म्माणि कृतानि इति यद्वदन्ति तदसम्भाव्यं चेत् एभिस्तानि कृतानि
भवन्ति, तहि महिषसंग्रामे कथं पलायिताः; अथ च, किं कुर्व्वती इति कर्म्माणि
विदधती, किलक्षणानि नाकलोकेश्वराणां अश्रद्धेयानि नाकलोकेश्वरा यानि
कर्माणि दृष्ट्वा न स्त्रीकर्म्मत्वेन सम्भावयन्ति, इतीति कि एष ईदृककर्म्मणः
कर्ता पुरभिद्वा नृसिंहो वा वृत्रहा वा नान्येनेदृकुकर्म कत्तु पार्यंत इति ॥६०॥
 

 
¹.
 
.
 
सं० व्या० - ६० एष प्लोष्टेति ॥ हतो अरिमहिषो यथा सा हतारिः, पार्वती
पर्वंतपुत्री वो युष्मान् अवतु रक्षतु, नाकलोका देवास्तेषामोश्वराः प्रभवो हरा-
दयस्तेषामित्येवं कर्माणि विविधानि नाना प्रकाराणि अश्रद्धेयानि असम्भावनीयानि
विदधती कुर्वती, किंभूतानां नाकलोकेश्वराणां विद्राणानां म्लेच्छानां क्व