We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

-
 
पद्या ५५ ५६ व्याल्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
(मङ्गलाय ) अस्तु भवतु, किंभूता प्रालेयाचलपल्ववैकबिसिनी प्रालेयस्याचलः
प्रालेयाचलो हिमाचलः सदेव ( स एव ) पत्वलं सर। प्रालेयाचलपलवलं तत्रैक-
बिसिनी पद्मिनी प्रालयाचलपत्वलैकबिसिनी पद्मिन्या हि पद्मसन्निधौ भ्रमरा इव
भवन्ति इत्यभिप्रायेणाह, यस्याः पादसरोजसीम्नि पाद एव सरोजं चरणपङ्कजं
तस्य सीम्नि पर्यन्ते पादसरोजसीम्नि, यस्याः देव्याः सप्तलोका भृङ्गा इव भ्रमरा
इव भान्ति स्म शुशुभिरे, कि विशिष्टाः सप्तलोकभ्रमराश्च सपक्षपाताः एकत्र पक्ष-
पाता: पक्षपातिनो मरुतो देवास्तेषां लोकानां ते तथोक्ताः भृङ्गा ये लोका
भ्रमराश्च, पूर्वं कीदृशाः महिषस्य क्षोभो महिषक्षोभः तस्मात् महिषक्षोभात्
क्षणं क्षणमात्रं स्तोककालं विद्रुताः विगताः पादसरोजसीम्नीति प्रकृतेन सम्बन्धः,
किंविशिष्टाः पादसरोजसीम्निपतिताः गीत्युत्सवोल्लासिनः उत्सवेन उल्लसितु
शीलं येषां ते उत्सवोल्लासिनः, गोत्या गानेनोल्लासिनो गीत्युत्सवोल्लासिन
इति ॥५५॥ .
 
.
 
*
 
अप्राप्येषुरुदासितासिरशनेरारात्कुतः' शङ्कुत-
श्चक्रव्युत्क्रमकृत्परोक्षपरशुः शूलेन शून्यो यया ।
मृत्युदैत्यपतेः कृतः सुसदृशः पादाङ्गुली पर्वणा
 

 
पावत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥५६॥
 
B
 
-
 
",
 
कुं० वृ० - तथा पार्व्वया त्रिभुवनं (प्रति-) पाल्यतां, पर्वाणि सन्धयो विद्यन्ते-
ऽस्येति पर्व्वतः, पर्व्वमरुद्भ्यां तम्निति तः पर्व्वतः, तस्यापत्यं पार्व्वती, किंभूतं
निःशल्यकल्यं निर्गतं च तच्छल्यं च तेन कल्यं, निर्गतेन महिषलक्षणेन शल्येन
निरातुरमित्यर्थः, तथा कया यया पार्व्वत्या दैत्यपतेर्महिषस्य मृत्युः सुदृशः कृतः,
पादाङ्गुली पर्व्वणा पादस्याङ गुली तस्याः पर्ध्वं तेन पर्व्वणा पर्वतपुत्र्या हि
पर्वणाऽपरस्य मृत्युयुं ज्यत इति, अत एव इषुप्रभृतीन्यायुधानि निरस्तानीत्यर्थः;
किंभूतो मृत्युः श्रप्राप्येषुः प्राप्तु योग्यः प्राप्यः, न प्राप्यः इषुर्येन स अप्राप्येषुः,
श्रन्यच्च, उदासितासिः, उदासीकृत: असिर्यस्मात्स उदासितासिः; अन्यच्च,
प्रशनिः श्रारात् दूरे प्रतो हेतोः शङ्कुतः, आरात्समीपे दूरसमीपयोः कुतः किं-
विशिष्ट: चक्रव्युत्क्रमकृत् व्युत्क्रम: अतिक्रमः तं करोतीति कृत्, चक्रातीत
 
-
 
१०३
 
१. का० प्राप्राप्येषु०१ श्रप्राप्तेषुरित्यपि टिप्पण्यां टङ्कितम् ।
२. का०-०पर्वतः ।
 
३. ज० यया ।