2023-02-24 17:17:44 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क ५४ व्याख्या ।
मेदपाटेश्वर कुम्भकर्ण-कृत-वृत्तिसमेतम्
9
हस्तांदुत्पत्य यान्त्या गगनमगणिताऽवार्यवीर्यावले '
वैलक्ष्येणेव पाण्डुद्यु तिमदितिसुतारातिमापादयन्त्याः ।
दर्पानल्पाट्टहासाद् द्विगुणितरसिता : सप्तलोकी जनन्या-
स्तर्ज्जन्या जन्यदूत्यो नखरुचिररुचस्तर्ज्जन्त्या' जयन्ति ॥ ५४॥
2
कुं० वृ० – सप्तलोकीजनन्याः नखरुचिररुचो जयन्ति भुवनानि विबध्नीया-
स्त्रीणि सप्त चतु शेति कविसमयात्, रुचिराश्चता रुचश्च रुचिररुचः, नखानां
रुचिररुचः नखरुचिररुच:, किंभूता जन्य-दृत्यः जन्यः संग्रामः तत्र दृत्य इव दृत्य:,
एतदुक्त भवति, ताः नखरुचिररुचो देव्याः माहात्म्यं अतिशयेन दीप्तिस्वरूपेण
शत्रुं प्रति प्रकटयन्ति, कि कुर्व्वन्त्या देव्या प्रदितिसुताराति देवशत्रुं तर्ज्जयन्त्याः;
कथा तर्ज्जन्या श्रङ्गुष्ठाद् द्वितीययाङ गुल्या; अन्यच्च तमेव पाण्डुरद्युति
आपादयन्त्याः, पाण्डुश्चासो द्युतिश्च पाण्डुद्युतिः तां पाण्डुद्युति, कि विशिष्टं
दैत्यं वैलक्ष्येणेव पाण्डुद्युति पाण्डु तिर्यस्येति बहुव्रीहिः, लज्जयेव, कि कुर्वत्या
स्तस्याः कंसहस्तादुत्पत्य गगनं यान्त्याः, कथं यथा भवति तथा, अगणितः अवि-
ज्ञातः अवार्यवीर्यस्य अवलेपो यत्र तत् यथा भवति तथा अवज्ञां कंसस्य
कृत्वेत्यर्थः, किंविशिष्टं दैत्य, गणितं परिच्छिन्नं अवार्थं यद् वीर्यं
तेनावलेपो यस्य तं तथाविधं पुनः किविशिष्टं दप्पनल्पाट्टहास द्विगुणत रसितं
दर्पेण बलेन अनल्पः प्रभूतोऽट्टहास: उच्चैर्हसनं तेन (342) द्विगुणितं द्विगुणीकृतं
रसितं यस्य स तथा तं, किविशिष्टाया: देव्याः तर्ज्जन्या तर्ज्जयन्त्याः अर्था-
दैत्यान्, किंविशिष्टा रुच: दर्पेण मनल्पो योऽट्टहासस्तेन द्विगुणतरसिता प्रति-
+
S
शयेनोज्ज्वलाः ॥५४॥
K
.
*
[ १०१
सं० व्या० - ५४. - हस्तादिति ॥ नखानां रुचयो नखरुचयस्तासां ततयो
नखरुचिततयः करजकान्तिश्रेणयो जयन्ति, कस्याः सप्तलोकीजनन्याः सप्तानां
लोकानां समाहारः सप्तलोको द्विगुरयं समासः, सप्तलोक्याः जननी सप्तलोकी .
:
ज० - धर्यवीर्यावलेपं ।
२. का० दर्पानल्पाट्टहास द्विगुरगत रसिताः ।
३. का० जन्यदूतो।
४. ज० का० नखरुचिततयस्तजंयन्त्याः ।
जननी तस्यास्तथाविधायाः अम्बाया इत्यर्थः, कि कुर्व्वत्याः [तर्जयन्त्याः]
निर्भर्त्सयन्त्याः कया तर्जन्या कि (कं ) तर्जयन्त्याः अदितिसुताराति कंसासुरं