This page has not been fully proofread.

पचाङ्क ५२ व्याख्या ]
 
मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
शूले शैलाविकम्पं' न निमिषितमिषौ पट्टिशे साट्टहासं
प्रासे सोत्प्रासमव्याकुलमिव कुलिशे जातशङ्क' न शकौ ।
चकचक कृपाणे न कृपणमसुरारातिभिः पात्यमाने
दैत्यं पादेन देवी महिषितवपुष पिंषती वः पुनातु ॥५२॥
 
3
 
[ ee
 
कुं. वृ. - देवी वः पुनातु पवित्रीकरोतु, कि कुर्व्वती दैत्यं पिषती, केन
पादेन, किविशिष्टं दैत्यं, महिषितवपुषं, श्रायुधानि त्यक्त्वा किमिति पादेन
पिपेष इत्याह विशेषणद्वारेण किंविशिष्टं शूले शैलाविकम्प शैल इव विक
शैला विकम्पः तं पर्व्वतवत् अविचलं; असुरारातिभिर्देवैः शूले पात्यमाने सति
यं सवंत्र सम्बध्यते; अन्यच्च, इषो बारणे न निमिषितं न सुचालितनेत्रं प्रकृत-
नेत्रस्पन्दन मित्यर्थः; श्रपि च, पट्टिशे प्रायुधविशेषे साट्टहासं, प्रासे कुन्ते सो (33b) -
त्प्रासं मनाक् स्मितं, सोत्साहमिव, कुलिशे वज्रेऽपि अव्याकुलं अत्रस्तं; अन्यच्च,
शङ्को प्रहरणविशेषे न जातशङ्कं न उत्पन्नभयं; अन्यच्च, चक्रे प्रचक्रं यथा-
स्थितमेव श्रविकृतततुं ; श्रपि च, कृपाणे खड्ने प्रक्षिप्यमाणे न कृपणं न दीनं,
अपि तु सहर्षम् ॥ ५२ ॥
 
"
 
सं० व्या० - ५२ . झूले शैलांधिकम्पमिति ॥ देवी भगवती वो युष्मान्
पुनातु पवित्रीकरोतु, किं कुर्वती पिषती चूर्णयन्ती पादेन चरणेन दैत्यं दितिजं,
किंविधं महिषितं वपुर्येन तं तथोक्त, प्रसुराणासरातयोऽसुरारातयो देवास्तैः यथा-
यथं पात्यमाने सति शूलादो आयुधे ईदृग्विधं दैत्यं पिंषती, शूले शैलाधिकम्पं
हरेण शूले पात्यमाने शैलस्येवाधिकं यो यस्य तं तथोक्त, इषौ शरेन निमिषितं
लोचनं, पट्टिशे प्रहरणे साट्टहासं, सह अट्टहासेन वर्तत इति साट्टहासं, प्रासे
सोप्रासं सोपहासं, कुलिशे वज्रे श्रव्याकुलमिव निराकुलं यथा, शङ्की प्रहरणे
पात्यमाने न जातशङ्कं न जातत्रासं, जाता शङ्कास्येति विग्रहः, कृपाणे खड़े
पात्यमाने वक्त्रं मुखं कृपणं दीनं न चक्रे न कृतवान्, दैत्येन्द्रस्येति प्रथम-
सम्बन्धः ॥५२॥
 
१. ज० शैलाधिकम्पं ।
 
२, ज० का० सोरप्रासमव्याकुलमपि ।
 
३१ ज० वक्त्र' चक्रे । का० चक्रेऽवक्रं; वक्त्रं कृपाणमित्यपि पाठः काव्यमालापुस्तके
संसूचितः ।