This page has not been fully proofread.

६८ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ५१ व्याख्या
 
"
 
कु० वृ० – सा अम्बिका वोऽवतात्, या कीदृशी, आह, यया अरिः शत्रुः
क्षुण्णः विचूर्णितः, किमभिधानः महिषः, किमिव तृणमिव केम क्षुण्ण: महिम्ना
आत्मीयप्रभावेन, कि कृत्वा वोक्ष्य दृष्ट्वा एतदुक्तं भवति देव्याः सकोप-
दृष्ट्यावलोकनेनैव जित्वा चूर्णीकृत:; किंभूतः, अपिहितव्योमसीमा, अपिहितः
आकाशपर्यंन्तो येन, पृच्छादिना व्योममार्गः इत्यर्थः, केन महिम्ना महत्वेन, कि
कुर्व्वन् क्रीडाक्रोडाभिशङ्कां विदधत्, क्रीडाथं क्रोड : क्रीडाक्रोड : तस्य सम्भावना
शूकरोऽयमिति तां विदधत्; अन्यच्च, किंभूतः पीवा स्थूलतर: अतिशयार्थोऽत्र
दृश्यते, कैः पातालपङ्क: पातालकर्दमैः, किंभूतः सन् क्षयरयमिलितैकार्णवे-
च्छावगाहः, क्षये प्रलयसमये यो रयो वेगः तेन मिलितः सञ्जातो यः एकार्णवः
एकः समुद्रः तस्मिन्नेवेच्छया विस्तीर्णत्वात् स्वेच्छयाऽवगाहो विलोडनं यस्य स
तथाविध एतदुक्तं भवति; चत्वारोऽपि समुद्रा लीलामात्रेणावगाह्य पङ्कीकृताः,
पकानां तु बहुत्वं समुद्रबहुत्वात्; प्रन्यच्च किंभूतः विलयन विगलञ्छृङ्ग-
शून्योत्तमाङ्गः, विगलन्ती ( ? ) च ते शृङ्गे च विगलच्छृङ्गे विलयनेन विलीनतया ये
विगलच्छृङ्गे ताभ्यां रहितं शून्यं उत्तमाङ्गं यस्य स तथाविधः, कुतस्तयोविलयनं
दाहात्, कस्य नेत्रत्रयाग्ने अर्थाद्देवी सम्बन्धिनः श्रयमभिप्रायः, यत एव क्रोडाभिशका
जनयति, अत एव देव्या यत्नेन वीक्ष्य क्षुण्णो महिषो दुरात्मेति ॥५१॥
 
7
 
सं० व्या० - ५१. कृत्वेति ॥ सा अम्बिका गोरी वो युष्मान् श्रवतात् रक्षतु,
यया अरिर्महिषः तृणमिव तृणवत् क्षुण्णः संपिष्टः, किं कृत्वा वीक्ष्यावलोक्य, कि कुर्वन्
महिषः क्षुण्ण: विदधत् क्रीडाक्रोडाभिशङ्कां कां, क्रीडद्य: क्रोड: शूकररूपो हरि०
स्तस्याभिशङ्कां भ्रान्ति कुर्वन्, किंभूतः पिहितव्योमसीमा व्योम आकाशं तस्य
सीमा अवधिर्व्योमसीमा स तथोक्तः, केन पिहितव्योमसीमा महिम्ना महत्वेन, कि
कृत्वा क्रीडाक्रोडाभिशङ्कां विदधत् तदुच्यते, कृत्वा पातालेत्यादि, क्षये रयः प्रलय-
वेगस्तेन मिलितः स चासो एकार्णवश्च क्षयरयमिलितैकार्णवः सर्वेरेव समुद्ररेक-
समुद्रो जात इत्यर्थः, इच्छयाऽवगाहः क्षयरय मिलितकार्णवेच्छावगाहः तं पाताल-
पङ्के रसातलकद्दमे कृत्वा विधाय एतदुक्त भवति, आदिवराहः प्रलयमिलितैकार्णवे
इच्छावगाहं कृतवान् अयं तु पातालपङ्क तथा कृतवान् इति कथंभूतः क्रीड़ा--
क्रोडाभिशङ्कां विदधत्, विलयत् विगलच्छृङ्गशून्योत्तमाङ्गः विलयनं विहृति-
विलयने विगलने विनष्यतीत्येवं शृङ्गव विलयन विगलच्छृङ्गे ताभ्यां रहित-
मुत्तमाङ्गं मूर्द्धा यस्य स तथोक्तः, कुतो विलयनं दाहात् तापात्, कस्य नेत्रत्रयाग्ने:
देव्या यन्नेत्रत्रयं तदेवाग्निः क्रोधावलोकनात् तस्य दाहादिति ॥५१॥
 
1