This page has not been fully proofread.

९६ ]
 
महाकविधाण विरचितं चण्डीशतकम् [पद्या ४९-५० व्याया
 
कुं० वृ० - चण्डिका वो युष्मान् पातु, कि कुर्व्वती, तं तथाविधं पति
चरणयोः पातयन्ती; कुतः त्रिसन्ध्यानतेः तिस्रश्च ताः सन्ध्याश्च त्रिसन्ध्या तासु
नतिः तस्या नतेः त्रिसन्ध्यान तिव्या जेनेत्यर्थः; एतदुक्तं भवति, परमेश्वर: त्रिसन्ध्यं
सन्ध्यास्थापनं करोति तत्कविरुत्प्रेक्ष्याह, सन्ध्यारूपा भगवती तं पति श्रात्मनः
पादयोः पातयन्तीव; तं कं येन पत्या कामं (द ) ह्ता भवान्या: प्राक़ परिभवः कृतः
श्रपराधः कृतः । श्रतः सेर्ष्या इव सह ईप्यंया वर्त्तत इति सेय, इति इवार्थो
दृश्यते; अन्यच्च यया स्वं श्रात्मीयं नाम चन्द्र भवशिरसि वर्त्तमाने चन्द्रशकले
लिखितं, केन मुहुर्वारंवारं गलितेन वाप्पेण, क्व मोली, किलक्षणेन वाप्पेण, माहित-
कज्जलेन आरोपित कज्जलेन; कि कुर्व्वत्या, कृते प्रतिकृतं प्रभ्यधिकं कुर्व्वन्त्या,
कृतं अनुक्रियते यत् तत् प्रतिकृतं; श्रयमभिसन्धिः, कामदहनलक्षणैकापराधः पतिः
कृतादप्यधिकं कुर्व्वन्त्या न केवलं पादयोः पातितः किन्तु अद्यप्रभृति तव दासो-
स्मीति स्वं नाम शिरसा धारितः ( म्) ।॥४६॥
 
1
 
.
 
सं० व्या० ४६. प्रावफाममिति ॥ सह ईष्यंया वर्तत इति सेर्ष्या चण्डिका
वो युष्मान् पवंतु रक्षतु, कै: सेर्ष्या त्रिसन्ध्यानतेः तिस्रश्च ताः सन्ध्यायच
त्रिसन्ध्या तासां नतानि नमितानि त्रिसन्ध्यानतानि तो, किं कुर्वती, चरणयोः
पातयन्ती, कं पति भर्तारं, येन पत्या प्राकू पूर्वं परिभवोऽभिभवः कृतः, किं
कुर्वता कामं दहता भस्मसात् कुवंता, यया चण्डिकया नामेव, कमिव लिखितं
चन्द्रे चन्द्रमसि किं विदधत्या कृतमभ्यधिक मिति रक्त कुर्वन्त्या, एतदुक्तं भवति
हरेण गौरी प्रत्यक्षं कामगात्र (दग्धं) तथा कामं जनयन्त्या सेया सः पादयोः
पांतित इति कृतस्याभ्यधिकं प्रतिकृतमिति, केन लिखितं बाप्पेलेन मौलो
पादपतितस्य पंत्युश्चूडायां मुहुः पुनःपुनर्मु केन श्रत एव चन्द्रों नामेव लिखितं
इत्युक्त, वस्तुत्वाच्चन्द्रस्येति, किंभूतेन चाप्पेण श्रहितकज्जन हितं त्यस्तं
( कज्जलं ) यत्र तेन तथोक्तेनेति ॥४॥
 
.
 
A
 
तुङ्गां शृङ्गाग्रभूमि' श्रितवति मरुतां प्रोतकाये निकाये
 
कुञ्जौत्सुक्या द्विशत्सु श्रुतिकुहरपुटं द्राक्ककुपकुञ्जरेषु ।
स्मित्वा वः संहृतासोर्दशनरुचिकृताऽकाण्डकैलासभासः
पायात् पृष्ठाधिरूढे स्मरमुषि महिषस्योच्चहासेव देवी ॥५०॥
 
१. ज० -तुङ्गाः शृङ्गाग्रभूमीः ।
२६ 'प्रोतकाये' इत्यपि पाठः काव्यमालामतेष्टिपप्ण्यां प्रदर्शित