This page has not been fully proofread.

६२ ]
 
महाकविधाण
विरचितं चण्डीशतकम्
 
। पद्याङ्क ४६ व्याख्या
 
22
 
ऽरि: विफलयथोक्ताऽभ्युपाय: विफला यथोक्ता अभ्युपाया: एतद्वाक्योक्ता यस्मिन्
स तथा, पूर्वं सामवेदादे: शान्त्युपायस्य वैफल्यमाह, आम्नाययोनेब्रह्मणः साम्ना
रथन्तरादिना प्राशिषा धृतिं न प्रकृत तुष्टि न लेभे, अत्र श्राम्नाययोनेरित्यस्य
यद्यप्याम्नाययोनिर्गमको यस्येति वर्णकान्तरेण व्याख्यानं तथापि आम्नायस्य
योनिः कारणमिति यतो ब्रह्मणः सर्व्वपितृत्वे सामवाक्यैरनुनये साभिमुख्य करणे.
अधिकार :; अंथ वेदादिकर्तृत्वात् रथन्तरादिना स एव श्रोतुं जानातीति प्राम्नाय
योनेरित्युक्तं; अन्यच्च, हरेर्मधुसूदनस्य चक्रेण भेदात् धृति न प्रकृत धैर्यं न ग्रहन्
न तत्याज, धैर्यविघातं न कृतवान् इत्यर्थः; कृ नत्र, हिसायां इत्यस्य प्रयोगः,
व्रतहरेश्चक्रेणेति प्रकृष्ट उपाय: हरेरेव योद्धमुख्यत्वात् चक्रस्यैव प्रहरणमुख्य-
त्वाच्च एतदुक्तं भवति; ब्रह्मणस्तोषवाक्यैनं तुतोष, अनु च, हरेश्चकादिविभोषया
न बिभाय; अन्यच्च, ऐरावणस्योपरि केवलं कलुषितः केव (31b) लं मालिन्यमेव
बभार, किंभूतस्यै रावणस्य, सेन्द्रस्य इन्द्रसहितस्य, कया दानवृष्ट्या दानवारि-
क्षरणेन, किमुक्त भवति, ऐरावणेनापि इन्द्रेण कदाचित् युद्धाभिनिवेशश्रान्तः सन्
दानोदकपरिपेका दिनोपचरितस्तथापि न तुतोष प्रत्युत सकोप एव सम्पन्न : प्रथ
सेन्द्रस्याग्रे ऐरावणस्येत्यत्र न केवलं ऐरावणेनैव दानप्रयोगोऽकारि यावता
इन्द्रेणापि स्वशक्त्या दानप्रयोगः कृतः, अथवा चात्र मुख्यस्येन्द्रस्योपसर्ज्जनत्वमय-
मिति वर्णकान्तर; सा इति लक्ष्मीनामसु पठितः सया स्वाराज्यलक्ष्म्या
उपलक्षित: सेन्द्र:, तस्याप्युपरि दानवृष्ट्या कलुषितः, किंभूतस्य सेन्द्रस्य ऐरा-
वणस्य, ऐरावणो विद्यतेऽस्येति मत्वर्थीयोऽकारः, एवं व्याख्याने इन्द्रस्य प्राधान्यं
स्यात्, अन्यच्च च पुनः मृत्योर्यमस्य दण्डेन प्रहरणविशेषेण न दान्तः सर्वलोक-
. क्षयकृत् यमोऽपि जित इत्यर्थः; प्रथवा पक्षान्तरं, किंभूतोऽरि: विफलयथोक्ताभ्यु-
पाय: विफला यथोक्ता नीतिशास्त्रोक्ता उपाया: सामभेददानंदण्डांख्या यत्र स
विफलयथोक्ताभ्युपाय:, कथं तदित्याह, श्राम्नाययोनेः साम्ना सामाख्येन उपायेन
धृति न चकार, ब्रह्मा सर्वस्य पितेति तच्छिक्षयापि न शान्ति जगाम; अतु च,
हरेश्चक रंग सैन्येन, सैन्यं प्रहरणं स्वर्णं चेत्याद्यनेकार्थे भेदात् भेदाख्यात् उपायात्
नं स्थितेश्चचाल, हरिसंन्यमध्यवतिभिः पुभिर्भेदेऽप्युपन्यस्ते न भिन्नः न दैत्येभ्यः
पृथग्भूतः; अन्यच्च, राज्यलक्ष्मीसहितस्य ऐरावणवतोऽपि इन्द्रस्य; इदि
परमैश्वर्ये इन्दतीति कृत्वा दानेन समर्थस्यापि दानवृष्ट्या केवलं कलुपित एव,
प्रतीवदानं वृष्टिशब्देनोच्यते, एतदुक्तं भवति तीवार्थोपचितः सन् इन्द्रस्थापि
दानेन न तुतोष; तर्हि चतुर्थोपायसाध्यो भविष्यतीत्याशङ क्याह, मृत्योर्दण्डेन मृत्यु -
मृत्यृत्वान्न दान्तः मृत्युनाऽपि दण्डयितुं न शक्या प्रत्युत मृत्योदंण्डने सामर्थ्यात्तस्य
एवं सति यः परमेश्वर्याः पञ्चमोपायरूपः पादः स भवदघं नुदतु । श्रत्र केचन देव्याः
 
&
 
·
 
.