This page has not been fully proofread.

पाडू ४४ व्याख्या ] मेवपाटेश्वर-कुम्भकर्ण -कृत-वृत्तिसमेतम्
कोपेनैवारुणत्वं दधदधिकतरा'ऽऽलक्ष्यलाक्षारसश्रीः
श्लिष्यत्तुङ्गाग्रकोण क्वणितम णितुलाको टिहुङ्कारगर्भः ।
प्रत्यासन्नात्ममृत्युः प्रतिभयमसुरैरीक्षितो हन्त्वरीन्वः
 
3
 
1
 
पादो देव्याः कृतान्तोऽपर इव महिषस्योपरिष्टान्निविष्टः ॥४४॥
कुं० वृ० – देव्याः पादो वो युष्माकं अरीन् हन्तु व्यापादयतु; कथंभूतः पादः
महिषस्य उपरिष्टान्निविष्ट: 'महिषमारूढः; पुनः कथंभूतः पादः, प्रत्यासन्नात्म-
मृत्युः प्रत्यासन्नोऽसुराणां आत्मनो मुत्युर्यस्मात् स तथा यमपक्षे प्रत्यासन्न
आत्मनः स्वस्य मृत्यु मृत्युनामा यमस्य अधिकृतः पुरुषः सोऽपि महिषारूढो भवति,
क इव अपरकृतान्त इव द्वितीयो यम इव; किंविशिष्ट : असुरैर्दानवैरीक्षितः,
कथं यथा भवति प्रतिभयं यथा भवति तथा; अन्यच्च, किविशिष्टः पादः)
शिलष्यत्तुङ्गाग्रकोणक्वणितमणितुला कोटिरेव हुङ्कारो गर्भे मध्यवर्ती यस्य स
तथा; यमोऽपि प्रत्यासन्नात्ममृत्युः प्रतिभयं यथा भवति तथा मर्त्यो दृश्यते, श्रत एव
यमसाम्यं पादस्योच्यते, यमोऽपि महिपारूढो भवति, हुङ्कारेण प्राणिनो भीषयति;
कि विशिष्ट अधिकतर लक्ष्या दृश्या लाक्षारसस्य यावकस्य शोभाः श्रियो
यस्मिन् स तथा; उत्प्रेक्ष्यते, कोपेन अरुणत्वं दधदिव ॥४४॥
 
सं० व्या० -४४. कोपेनेवारुणत्वमिति ॥ देव्याः भगवत्याः पादोऽङ्घ्रिः
वो युष्माकमरीन शत्रून् हन्तु व्यापादयतु किविशिष्टो निविष्ट: स्थितः, क्व
उपरिष्टात् उपरि, कस्य महिषस्य, श्रपर इव द्वितीय इव कृतान्तो यमः; यमोऽपि
महिषोपरि वसतीत्यभिप्रायः । किंभूतः पादः, प्रसुरैः महिषपक्षरीक्षितोऽवलोकित:
कथं प्रत्यासन्नात्ममृत्यु प्रतिभयं मृत्योर्मरणात् प्रतिभयं मृत्युप्रतिभयं आत्मनो मृत्यु-
प्रतिभयं प्रत्यासन्नं सन्निहितात्ममृत्युप्रतिभयं यस्मिन्नीक्षणे तद्यथा भवत्येवं; किं
कुर्वन् पादः कोपेनैवारुणत्वं रक्तत्वं दघत् धारयन्, वस्त्वर्थस्तु स्वभावरक्तोक्तिः,
अत एवाधिकतरालक्ष्यलाक्षारसश्रीरित्युक्तः, अधिकतरा अभ्यधिका लक्ष्या थालोक-
नीया लाक्षारसस्य यावकस्य श्रीः शोभा यस्य सः तथोक्तः पुनरपि किविशिष्टः
 
..
 
पाद: श्लिष्यच्छृङ्गाग्रकोणक्वणित मणितुला कोटिहुङ्कारगर्भ: तुला कोटिनू पुरो
 
मणीनां तुलोकोटिमणिः, कोणो वादकः, शृङ्गस्याग्रं शृङ्गाग्रं तदेव कोणः श्लिष्य-
श्चासौ शृङ्गस्याग्रकोणश्च तेन क्वणितः शब्दितश्चासौ मणितुलाकोटिश्च श्लिष्य-
L
 
*
 
[[][]
 
१. दधदधिकमलमित्यपि पाठान्तरं काव्यामालाप्रती पाटिप्पण्यामसिम् ।
२. ज० का० - विलक्ष्यच्छङ्गाप्रकोण ० ।
 
३. ज० का० - प्रत्यासन्नात्ममृत्युप्रतिभय मसुरीरीक्षितो ।