This page has not been fully proofread.

८८ ]
 
महाकवित्राण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ४३ व्याख्या
 
-
 
कुं. वृ. – पादपद्म युप्मान् पातु अर्थाद् देव्या: कि विशिष्ट केसरिस्कन्धभित्तरुपरि
क्षणं घृतं, किमर्थं विश्रान्त्यं, केसरिणः सिंहस्य स्कन्धः स एवं भित्तिः तस्याः, कि कुर्वन्
तत्केसरालीं बिभ्रत्, तस्यां केसरिस्कन्धभित्तो केसराली केसरपति: तत्केसराली
तां, पद्मस्य हि गर्भे केसराणि भवन्ति, किं कृत्वा दत्त्वा के त्रिदशरिपुमहादैत्य-
देहोपहारं त्रिदशानां देवानां रिपुस्त्रिदशरिपुः महांश्चासो दैत्यश्च महादैत्य :
त्रिदशरिपुश्चासौ महादैत्यश्च त्रिदशरिपुमहादैत्यः तस्य देहः स एव उपहारों
बलिः तं त्रिदशरिपुमहादैत्यदेहोपहारमित्यतः पोनरुवतस्य स्पष्टत्वात्; अपपाठोयमिति
निश्चीयते पर्यायाणां श्रविकर्त्तनस्तमसामितिवत् अवयवार्थविशेषादर्शनात्, तोऽत्र
'महाभागदेह' इति पाठेन भाव्यं; किंभूतमुपहारं, स्थूलान्त्रनालावलिविघसहंस द्
घस्मरप्रेतकान्तं मन्त्राप्येव नालानि अन्त्रनालानि, स्थूलानि यानि स्थूलान्त्रनालानि
तेपांवलिः स एव विघसो भुक्तशेष: ग्रास: तेन हसन् घस्मरोऽदनशीलः
प्रेतानां कान्तो यस्मिन् स तं, क्या दत्वा कात्यायन्या, केन आत्मनैव प्रयमाशयः,
श्रयं महान् महिषरूप उपहार : देवीपादभुक्तशेपेणैव मे तृप्तिर्भविष्यतीति यमस्य
हासे करणं, किल देव्या महोत्सवे सर्वैरुपहारो दीयते; यत्र महिषवधमहोत्सवे
देव्या श्रात्मनैव चर (30b ) णयोरुपहारों दत्त इत्यर्थः, कथभूतं पादपद्म मणि मधु-
परणन्नूपुरं मणय एव मधुपाः ते रणन् नूपुरो यत्र तत्तथा ॥४३॥
 
.
 
"
 
सं० व्या० - ४३. दत्त्वेति ॥ पाद एव पद्म चरणपङ्कजं युष्मान् भवतः
पातु रक्षतु, किविशिष्टं उपरिकृतं कात्यायन्या देव्या क्षणं स्तोककालं कस्या
उपरिकृतं, केसरिस्कन्धभित्ति: तस्या उपरिकृतं किमर्थं विश्रान्त्यै विश्रमणाय,
पद्मस्य हि नालकेसरभ्रमणयोगो भवति स तु यथाऽवसरं दर्शयति, कि कुर्वत् पाद-
पद्म विभ्रत् धारयत् तत्केसराली तस्याः स्कन्धभित्तेः केसराली तां, किविशिष्ट
पादपद्म लिमुखररणन्नूपुरं श्रलिवन्मुखर एव वाचालो रणन्नूपुरो यत्र तत्
तथोक्त, किं कृत्वा स्कन्वोपरिकृतं दत्त्वा त्रिदशरिपुमहादैत्यदेहोपहारं त्रिदशा
देवास्तेषां रिपुः स चासो महादैत्यश्च तस्य देहस्त्रिदशरिपुमहादैत्यदेहः स
चासावुपहारश्च त्रिदशरिपुमहादैत्यदेहोपहारस्तं दत्वा, उपहारो बलिः, भगवती [त्यै]
हि परेणोपहारो दीयते, कात्यायन्या ग्रात्मनव स्वयमेव महिपदेहोपहारं [कृ] तमिति
किविशिष्टमुपहारं स्थूलान्त्रमाला वलिंविघसह्सद्धस्मरप्रेतकान्तं स्थूलानि च
तान्यन्त्राणि तेषां मालाः स्रजस्तांसामावलिः श्रेणि: पंक्तिस्तस्या विघसो भुक्त-
शेषं तेन हसन्तो घस्मरा भक्षका ये प्रेताः परेतास्तेषां कान्तों वल्लभस्तं स्थूलान्त्र-
मालावलिविघसहसद्धस्मरप्रेतकान्तम् ॥४३॥