This page has not been fully proofread.

८६ ]
 
महाकविबाण - विरचितं चण्डीशतकम् [ पद्या ४१ व्याख्या :
 
काली कृष्णवर्णा सती, कि कृत्वा पूर्वमादी सकलं समस्तं लोकं श्रालोक्य दृष्ट्वा
किंभूतं कल्पान्तकालाकुलमिव, कल्पे क्षयकाले प्राकुलमात्र मिव किमुक्तं भवति,
एवंविधं जगदालोक्य तृतीयस्याग्न्यात्मकस्य हरनयनस्य रूपं गृहीतवती, श्रुति-
बलधूमसंयोगाग्नेर्भवत्येव कृष्णत्वं; अन्यच्च किंभूता पश्चादनन्तरं मत्सरेण कोपेन
लोहिनी अरुणवर्णा, हरस्य हि सूर्यात्मकं नेत्रं रक्तं भवति; कथंभूता विदित
दितिसुता विदितो ज्ञातो दितेः सुतो यथा सा तथा, अथवा विदितः खंडितो दिति-
सुतो यया सा तथा, क्व सति शृङ्गे महिषविषाणे श्लिष्टे पादलग्ने सति;
श्रन्यच्च, किंविशिष्टा गौरी गौरवर्णा केन प्राक्स्वभावेन, हरस्य हि तृतीयं इन्दु-
संज्ञकं नेत्रं गौरं भवति अत एव पत्यु: प्रतिनयनमिवाविः कृताऽन्योन्यरूपेत्युक्तं;
क्व सति, महिषे निपतिते सति, किंभूते महिषे परासौ गतजीवे; अन्यच्च, किं-
विशिष्टे पादोत्पिष्टे, चरणेन चूर्णिते, विशेषणद्वा (30a) रेण हेतु: एतेन चन्द्रात्मकं
नेत्रं रूपधारित्वमुक्तं, देव्या: स्वरूपावस्थायां तद्वर्णत्वात् ॥४॥
 
सं० व्या० - ४१० फालीति ॥ गौरी भवानी वो युष्मान् पातु रक्षतु,
किमिव प्रतिनयनमिव अपरं लोचनं यथा, कस्य पत्युः शङ्करस्य, किंभूता गौरी
आविष्कृतान्योन्यरूपा प्राविः कृतं प्रकटीकृतं अन्योन्यं स्वस्य लोचनस्य स्वरूपं
यया सा तथोक्ता, एतदुक्त' भवति स्वस्य रूपं भर्तृ लोचनस्य प्रकटीकृतं लोचनस्य
रूपमात्मन इति, कि पुनर्लोचनरूपं यदात्मनस्तया प्रकटीकृतं लोहितं, गौरं तदुच्यते
कल्पस्यान्तः स चासौ कालश्च तस्मिन्नाकुलं कल्पान्तकालाकुलं कल्पान्तकाला-
कुलमिव महिषोपप्लवेन सकललोकमालोक्य पूर्व काली कृष्णा पश्चादनन्तरं
विदितदितिसुता ज्ञातदैत्या लोहिता रक्ता मत्सरेणाद्यमर्षेण क्व सति विदितदिति-
सुताश्लिष्टे लग्ने सति विषाणे शृंगे पादाच्चरणात् सकोशात् पिष्टे चूर्णिते परासौ
मृते महिषे पतिते सति, प्राक्स्वभावेन प्रकृत्या गौरी श्रवदाता उज्ज्वला; पर-
वोऽस्ते परासुरिति बहुव्रीहिः ॥४॥
 
गम्यं नाग्नेर्न चेन्दो: ' सपदि दिनकृतां द्वादशानामशक्य
शकस्याणां सहस्र सह सुरसदसा सादयन्तं प्रसह्य ।
उत्पातोग्रान्धकारागममिव महिषं निघ्नती शर्म्म दिश्याद्
देवी वो वामपादाम्बुरुहनखमयैः पञ्चभिश्चन्द्रमोभिः ॥४२॥
 
१० ज० नाग्नेजितेन्दु ।
२. ज० का० द्वादशानामसह्य ।
३. ज० सुरमहसा ।
 
3