We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

पद्याङ्क ४०-४१ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
नीते सति; किंभूतां निद्रां निर्व्याजदीर्घो मृत्युस्वरूपां इत्यर्थः, किंभूते तस्मिन्
अघवति अघं पापं विद्यते यस्य सोऽधंवान् तस्मिन् लोकोपद्रवकारिणीत्यर्थः, पुनः
किंभूते मघवद्वज्ज्वलज्जानिदाने मघवतः इन्द्रस्य वज्रं तस्य लज्जाया निदानं
मध्वंद्वज्र्ज्वलज्जादिदानं तस्मिन् पर्व्वतपक्षच्छेदेनापि वज्ञस्य यमासाद्य
कुण्ठित्वाल्लज्जां जातेत्यर्थः ॥४॥
 
८.५
 
सं० व्या० - ४०. नीते निर्व्याजति ॥ लोहितं रक्तं रुधिरमिति यावत्
तदेवाम्भो जलं तस्य समुद्रा: लोहिताम्भ:समुद्राः त्वां भवन्तं रक्षन्तु पान्तु कि
विशिष्टा: लोहिताम्भ:समुद्राः त्रिशूलक्षतकुहरभुव: त्रीणि शूलानि: स्येति
त्रिशूलमायुधं तस्य क्षतानि तेषां कुहराणि स्वभ्राणि त्रिशूलक्षतकुहराणि तेभ्यो
भवन्तीति त्रिशूलक्षतकुहरभुवः, इदानों त एवोत्प्रेक्ष्यन्ते, रक्तताया: लोहितस्य राशयः
पुञ्जास्तं एव गलिता विशीर्णाः कुतो दृरभ्यो दृष्टिभ्यस्तिसभ्यः त्रिसंख्याभ्यः
कस्या हरभ्यः देव्या: कि कुर्वन्त्या: देव्याः संस्मरन्त्याः कं स्वभावं
स्वां प्रकृति लोचनानि हिं स्वत्रिभागरिक्तानि किंभूताया: देव्या: मुषितभिय:
मुषितं दूरीकृतं भयं यया तस्याः, क्व सति मुषितभिय: स्वभावं संस्मरन्त्या: देव-
द्विषि महिषाख्ये द्रागेव शीघ्रमेव निर्व्याजमेव दीर्घा निद्रां नीते सति, व्याज-
स्याभावो निव्र्व्याजमित्यव्ययीभावः तेन दीर्घा निव्र्व्याजदीर्घा किविशिष्टे देव-
द्विषि अघवति मघवद्वज्र लज्जानिदाने अघ: विद्यते अस्येति प्रघवत् तस्मिन्
प्रागस्विनि मधवानिन्द्रस्तस्य वज्रमायुधं तस्य लज्जाया निदानं कारणं मघवद्-
वज्रलज्जानिदानं तस्मिन्, वज्रस्य महिषे प्रप्रभुत्वात् लज्जाभावः ॥४०॥
काली कल्पान्तकालाकुलमिव सकलं लोकमालोक्य पूर्व
 
पश्चात् श्लिष्टे विषाणे विदितदितिसुता लोहिनी' मत्सरेण ।
पादोत्पिष्टे परासौ निपतति महिषे प्राक्स्वभावेन गौरी
 
.
 
गौरी वः पातु पत्युः प्रतिनयनमिवाविष्कृतान्योन्यरूपा ॥४१॥
कु० वृ० - गौरी पार्वती वो युष्मान्ः पातु रक्षतु, किंभूता गौरी, आविः-
कृतान्योन्यरूपा विकृतं प्रकटीकृतं अन्यस्यान्यस्य यात्मनि न्यस्तं श्रात्म-
सम्बन्धि यद्रूपं तत्पश्चात् महेश्वरनेत्रेषु संक्रमित तत्तद्भांवां देवीं दृष्ट्वा तथा-
विधानि नेत्राणि जातानीत्यर्थः; उत्प्रेक्ष्यते, पत्युः प्रतिनयनमिव नयनं नयनं प्रति
प्रतिनयनं, कृष्णं रक्त शुक्लं च; किविशिष्टा सती एवंलक्षणा जाता इत्याह,
 
1.
 
.
 
१. ज० का० लोहिता ।
 
२. काव्यमालाप्रती 'प्रतिनयन इवाविष्कृताम्योन्यभावा' इति पाठान्तरमपि प्रदर्शितम् ।