This page has not been fully proofread.

पद्यांक ३८-३९ व्याल्या ].
 
मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ६३
 
$
 
सा हतरिपुः कथं जयोक्त तदुच्यते, दैत्यो दोर्दर्पशालीत्यादि, दोषो (ष्णो) दर्पस्तेन
शाली शालि शीलं यस्य स ( दो ) ६प्र्पशाली, कल्पनीयाभ्युपाय: कल्पनीयः
अभ्युपाय: सामादिको यंत्र स कल्पनीयाभ्युपाय: दैत्यो दितिजो दर्प-
शाली कल्पनीयाभ्युपायो न यस्मात् महिषवपुः महिषशरीरे तिर्यक्त्वेनाऽबाहुकोऽय-
मिति भावः । वायो पवन ! वारीश वरुण ! विष्णो हरे ! वृषगमन शम्भो !
बृहत् महान् कि विषादो विषण्णता वृथैवेत्यर्थः, बध्नीत कवचं सप्ताहं अचकिता
प्रशङ्किताः किमेकाकिनो भवन्तो ब्रघ्नमिश्राः, ब्रध्नेन भानुना मिश्रा : युक्ताः,
चित्रभानो व ( वह्न ! ) दह भस्मीकुरु भरीन् शत्रून् महिषपक्षांनित्यर्थः ॥ ३८॥
श्राव्योमव्यापिसीम्नां' वनमतिगहनं गाहमानो भुजाना-
मचिर्मोक्षेण मूर्च्छन् दवदनरुचां लोचनानां त्रयस्य ।
यस्या निर्व्याजमज्जच्चरणभरनतो गां विभज्य प्रविष्टः
पातालं पङ्कपातोन्मुख इव * महिषः सा श्रिये स्तादुमा वः ॥ ३६॥
 
3
 

 
कुं० वृ० - सा उमा पार्व्वती वो युष्माकं श्रिये स्तात् भवतु, कथंभूतेत्याह,
यस्याः निर्व्याजमज्जच्चरणभरनतः सन् महिषः पातालं प्रविष्टः, निर्व्याजं
प्रकौटिल्येन लीलया मज्जन् महिषस्कन्धे ब्रुडन् योऽसौ चरणस्तस्य भरो गुरुत्वं
तेन नतः, कि कृत्वा गां पृथ्वीं विभज्य, कि कुर्वन् गाहमानो मर्दयन्, किं वनं
समूहं, केषां भुजानां देवीसम्बन्धिनां बाहूनां, किंभूतानां श्राव्योमव्यापिसीम्नां
व्योम्नः श्री श्रव्योम श्राव्योमव्यापिनी सीमा मर्यादा येषां ते आव्योमव्यापि-
सीमानस्तेषां, किंभूतं वनं अतिगहनं, अत एव दैत्य उत्प्रेक्ष्यते पङ्कपातोन्मुख इव
कर्दमाभिमुख इव महिषः किल प्रतिगहनं अपि कण्टकरूपं वनं अवगाह्य श्रान्तः
सन् पङ्के प्रविशति; अन्यच्च, किं कुर्व्वन् प्रत्तिमोक्षण मूर्च्छन् दीनमोचनेन (?) मूच्छ
गच्छन् कस्य देवीसम्बन्धिनां लोचनानां त्रयस्य, किंभूतानां दवदहनरुचां
दवाग्निदीप्तानां क्रोधवशाद् प्रतिप्रदीप्तानामित्यर्थः, देव्या नेत्रत्रयं विद्यते महेश-
शक्तित्वात् ॥३॥
 
1
 
2
 
१. ज० श्रव्योमव्यापिसीम्नां ।
 
२. वृत्तावतिमोक्षेणेति पाठो व्याख्यातो विचारणीयः ।
३. ज० का० निर्मज्जमज्जच्च रणभरनतो ।
 
४. ज० का० विभिद्य ।
 
५. ज० पङ्कपातोन्मुखमिव ।
 
६. ज० सा शिवास्तु श्रिये वः का० स्तादुमा सा श्रिये वः ।