This page has not been fully proofread.

महाकविवाण-विरचितं चण्डीशतकम् । पद्याङ्क ३७-३८ व्याख्या
..
 
८२ ]
 
स्मेरा स्मयनशीला, कृता श्रोत्रपेयाधिकोक्तिः कृता श्रोत्रपेया श्रवणग्रहणयोग्या
अधिका सातिशयोक्तिर्वचनं यया सा तथोक्ता अत एव सर्वं पशुपतेः कुर्वाणे-
त्युक्तम् ॥३७॥
 
दैत्यो दोर्दर्पशाली नहि महिषवपुः कल्पनीयान्युपायो
 
वायो वारीश विष्णो वृषगमन वृषन् किं' विषादो वृथैव ।
[ब]घ्नीत ब्रघ्नमिश्राः कवचमचकितश्चित्रभानो दहारी -
 
नेवं देवान् जयोक्त" जयति हतरिपोह पितं हैमवत्याः ॥३८॥
 
-
 
१.
 
कुं० वृ० – हैमवत्याः ह्रेपितं लज्जितं जयति, कथंभूताया: हतरिपोः हतो
व्यापादितो रिपुर्यया सा तथा तस्या देवान् प्रति इति जयोक्त सति, जयया उक्त
जयोक्त तस्मिन् जयोक्ते, किं तत् जयोक्तं तदाह, हे वायो ! हे वारीश ! वरुण !
हे विष्णो ! हे वृषगमन ! महेश ! हे वृषन् ! इन्द्र ! भवतां सर्वेषां किमिति
कस्मात् कारणात् वि (29a) षाद : शोचनं कथं वृथा निःप्रयोजनं यतः कारणादयं
दैत्य: कल्पनीयाभ्युपाय: कल्पनीयश्चिन्त्योऽभ्युपायो यस्य स तथा, किमुक्तं भवति
केनापि लावदुपायेनास्य वधः कत्तु युज्यते इति हि यस्मादयं महिषवपुर्महिष
शरीरोऽतएव न दोर्दर्पशाली, दोष्णां दप दोर्दर्पस्तेन शालते इत्येवंशीलः, प्रस्य:
बाहू न. विद्येते इत्यर्थः । श्रथ महिषवपुष्ट्वात् मायाबलेन कृत्वा वर्तमानः
कल्पनीयाऽभ्युपायेन प्रात्तो यत्नो विधेयः, तमेवाभ्युपायं आह, हे देवा ! यूयं
कवचं बध्नीत, किंविशिष्टा वयं ब्रघ्नमिश्राः सूर्यसहिताः, पुनः किं विशिष्टा
यूयं अचकिता: प्रस्ताः सन्तः; अपि च, हे चित्रभानो ! चित्रा भानवो यस्य स
चित्रभानुरग्निः, हे अग्ने ! त्वं किमिति भीतः भयं मा कार्षीः, किन्तहि, अरीन्
दह भस्मीकुरु ॥३८॥
 
}
 
3
 
*
 
१. ज० वृहत् कि ।
 
२. ज० देवी जयोक्त ।
 
३. ज० हर्तारिपुह पितस्वरिंकाया ।
 
"
 
*
 
सं० व्या० - ३८. दैत्यो दोर्दर्पशालीति ॥ देवी भगवती जयति, हेपितस्वर्णि-
काया, स्वः स्वर्गो निकायो निवासो येषां ते स्वर्णिकायाः, हेपिता लज्जिताः स्वणि
काया: यया सा तथोक्ता देवी, क्व सति एवमित्थं जयया प्रतीहार्या उक्तमभिहितं
जयोक्त तस्मिन् जयोक्ते सति, किंभूता देवी हतरिपुः हतो रिपुमंहिषाख्यो यया