This page has not been fully proofread.

पद्याङ्क ३७ व्याख्या । मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ८१
 
}
 
IN
 
· कुं० वृ० - पार्वती गिरीन्द्रतनया वो युष्मान् अवतु, किंभूता पूर्ववत् पशु-
पतेर्म हे शस्य (286) यथा पशुपतेर्महिषस्य ईदृक् एवंविधं कम्म ईषत् कुर्व्वाणा,
ईषदिति तदाभासत्वेन सर्व्व कुर्वाणा, कि तदाह, महिषे निरीक्ष्यमाणे तस्य
दृष्टी आसक्तदृष्टि: आरोपितदृष्टि:; अन्यच्च कृतमुख विकृतिः तस्मिन् कोणेन
भ्रूभङ्गमुखा रक्तत्वाऽघरकम्परूपां मुखविकृति कुर्व्वती तथैव कृतमुख विकृतिः तस्य
प्राभिमुख्ये सम्मुखत्वे सम्मुखीना सम्मुखीनेत्यत्र यथा मुखसम्मुखस्य दर्शनं
सम्मुखीन: दृश्यतेऽस्मिन्निति दर्शनसम्मुखीना सम्मुखा; अन्यच्च तस्मिन् हास-
प्रगल्भे उपहासचतुरे सति स्मेरा सहासा सा, तावत् किं ब्रूते, श्रा, मन्ये देव-
मँहेश्वरप्रभृतिभिर्जितः पूर्वं, सम्प्रति इयं अपि मां जेतुं आगता त एव एनां प्रति
मम उपहास: प्रतिभासते; अपि च, तस्मिन् प्रियवचसि ललितवचने सति कृत-
श्रोत्र पेयाऽधिकोक्तिः कृता श्रोत्राभ्यां पेया श्रव्या अधिक उक्तिर्यस्याः सा तथा;
इदानीं महिषः कथयति, हे चण्डि ! श्रागच्छ यत् त्वं युद्धविषये योग्या भवसि
प्रवीणा श्रूयसे; देवी ग्राह, हे महिषासुर ! त्वमपि सामान्यो न भवसि यतो
निजभुजयुगबल विजितसकलसुरनिकरः; श्रन्यच्च तस्मिन् महिषे नर्म्मकर्म्मणीति
युद्धावसरत्वात् मारकर्म्मणीत्युपचर्यते तस्मिन् महिषे मारकर्मणि उद्युक्त सति
उद्यते सति साऽपि तथैवोद्युक्ता प्रगुणीभूता पशू॒नामुपकृतत्वेन महिषं व्यादिश्य
पशुपतेर्महेश्वरस्य सादृश्यात्तथाऽभिधीयते, क्रीडासमये हरे आसक्तदृष्टी आसक्त-
दृष्टिः; अन्यच्च, कामेच्छया तस्मिन् कटाक्षनिरीक्षणरूपां मुखविकृति कुर्व्वति
सति साऽपि कृतमुख विकृतिः; अन्यच्च, तस्य आभिमुख्ये सति सम्मुखीभूता; अपि
च, तस्मिन् हासप्रगल्भे सहासा; अन्यच्च, तस्मिन् प्रियवचसि कृतश्रोत्रपेयाऽधिकोक्तिः;
प्रत्यच्च, तस्मिन् नर्म्मकमणि स्मरव्यापारविषये उद्युक्त सति साऽपि तथैवो-
युक्ता,
किविशिष्टा सा, विनिहितचरणालक्तकेव आरोपितपादालतका इव,
अलक्तकप्रतिरहितपादेवेत्यर्थः । पुनः किंविशिष्टा सा क्षतारि: क्षतशत्रुः ॥३७॥
 
..
 

 
सं० व्या० - ३७. दृष्टावा सक्तदृष्टिरिति ॥ पार्वती पर्वतपुत्री वो युष्मान्
अवतु रक्षतु, पशुपतेः शङ्करस्य सम्बन्धि सर्वं पूर्ववद्यथा पूर्वमेव कुर्वाणा विदधाना,
किंभूता उद्युक्ता उद्यता स्वनर्मकर्मणि परिहास क्रियायां, कथंभूता क्षतारिः क्षतो
अरिया सा तथोक्ता, ईषद्विनिहितचरणालक्तका ईषत् मनाक विनिहितो न्यस्तः
चरणालक्तको यथा तथा, इत्युक्तं भवति व्यापादितमहिषरक्ताक्तचरणा विन्यस्ता-
लक्तकेव लक्ष्यते नर्मकर्मोद्यता, किमवस्था या पार्वती दृष्टावासक्त इष्टि: श्रासवता
लग्ना दृष्टिर्यस्याः सा आसक्तदृष्टि: प्रथममिव तथा तेनैव प्रकारेण सम्मुखी
चाभिमुखी क्व श्राभिमुख्य अभिमुखभावे पशुपतेरिति सम्बन्धः, हासेन प्रगल्भे
हासप्रगल्भे प्रियं च तत् वचश्च प्रियवचस्तस्मिन् प्रियवचसि हासप्रगल्भे पशुपतौ
 
3
 
9
 
.