2023-02-24 17:17:40 by ambuda-bot
This page has not been fully proofread.
>
पद्याज ३५-३६ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
[ ७९
कुं० वृ० – अद्रेः कन्या पर्वतपुत्री वः [त्रायतां] पालयतु, किं कुर्वती मृद्मती
चूर्णयन्ती, कं दैत्यं, किंभूतं इत्थं व्यावल्गन्तं क्व प्रमथपरिभवे 'प्रमथाः स्युः
पारिषदा : ', प्रमथानां परिभवः प्रमथपरिभवः तस्मिन् प्रमथपरिभवे, कथं केन
प्रकारेण, हे नन्दिन् ! हे महेश्वरगण ! सम्प्रहारे सङ्ग्रामे यस्त्वदीयः प्रहार:
आघांतः स मम आनन्ददः, आनन्दं ददातीति आनन्दद:, अथवा हे नन्दिन् ! ते
प्रहारो मे आनन्ददो न अपि तु सम्यगानन्ददः, श्रथ नन्दं द्यति खण्डयति आनन्दद:
अत्र उपहासमात्रं द्योत्यते; किंभूतः प्रहार: मुरजमृदु: मुरजे वाद्यविशेषे य
श्रा(28a) घातस्तद्वन्मृदुः यतस्त्वं मुरजवादनप्रवीण : तदीयो यः प्रहारः प्रमुरजा-
घातसदृश एव; श्रपि च, हे गजमुख ! त्वं कि व्रजसि कि यासि त्वं वशीभूतः
एव मया गृहीत एव, क्व सति दन्ते विषाणे रोम्णि अर्थान्मामके परिणमनात्
तिर्यकुदत्तप्रहारास्तु (त्तु) भग्ने सति तव एक एव दन्तोऽभूत् तं अपि त्यक्त्वा
व्रजन् न लज्जसे; श्रपि च, हे महाकाल ! हरगण ! त्वं एतन् मा ज्ञासी: यत्
अहं एक एव महाकालो न द्वितीयः यावता इहास्मिन् युद्धे अहं एव महाकालो
मृत्युरूपः कोऽन्यः, महाँश्चासौ कालश्च महाकाल ः अत एव ममाग्रतः क्व यास्यसि,
किं कुर्वन् द्युजनं देवसमूहं निघ्नन् चूर्णयन् वीप्सालाघवार्थविशेषणद्वारेण हेतुः ।
अथ निघ्नन् परवशं निघ्नन् चूर्णयन् ॥३५॥
सं० व्या० - ३५. नन्दिन्निति ॥ श्रद्रेः कन्या पर्वतदुहिता वो युष्मान् त्रायतां
रक्षतु, कि कुर्वती मृदूनती निघ्नती के दैत्यं दितिजं महिषमित्यर्थः क्व सति
प्रथमपरिभवे सति, कथमित्थमनेन प्रकारेण तदुच्यते, हे नन्दिन् ! नन्द्याख्य ! मे
प्रहारो घातः संप्रहारे युद्धे श्रानन्ददः श्रानन्ददाता, किंभूतः प्रहारो मुरजमृदुः
[मृदङ्ग] कोमल: एवं प्रहारोऽपि प्रानन्दद इति, अत्र छलपक्षे कालो यम: महांश्चासौ
कालश्चेति विग्रहः, कि कुर्वन् निघ्नन् व्यापादयन् प्रधुना इदानीं कि जनं स्वर्ग-
जनं निघ्नन इति वीप्सायां द्विवचनम् ॥३५॥
20
वज्र मज्ञो मरुत्वानरि हरिरुरसः शूलमीशः शिरस्तो
दण्ड तुण्डात् कृतान्तस्त्वरितगतिगदाम
स्थितोऽर्थाधिनाथः ।
प्रापन् यत्पादपिष्टे द्विषि महिषवपुष्यङ्ग लग्नानि भूयो-
ऽप्यायू'षीवायुधानि द्य वसतय [इति] स्तादुमा सा श्रिये वः ॥३६॥
'
इलोकस्य द्वितीय पादस्य व्याख्या प्रती लिपिकर्तृ प्रमादाद्विसृष्टा नाम, तदेवमनुपूर्यते - - हे
गजमुख ! रोम्णि रोमसदृशे दन्ते रदने रुग्ण भग्ने सति कि व्रजसि कि पलायसे यतस्त्वं
पलायमानोऽपि वशीभूत एवं गृहीत एव, लम्बोदरत्वात् क्षिप्रधावनं कर्तुं असमर्थोऽसि, इति
भावः ॥