2023-02-24 17:17:40 by ambuda-bot
This page has not been fully proofread.
७८ ]
महाकविवाण-विरचितं चण्डीशतकम्
[ पद्याङ्क ३४-३५ व्याख्या
sवधि निपातितः, किं कुर्व्वन् इति जल्पन् इति कथयन्, इतीति कि, हे शिखिन् !
अग्ने ! मद्भयेन त्विं एक: कि निर्व्वाणः प्रशान्तो विगततेजाः संपन्न: किन्तु
शार्ङ्गधन्वाऽपि विष्णुरपि निर्वाण: बाणरहितः संपन्न:, कि कुर्वन् रणशिरसि मां
विध्यन् ताडयन्, शार्ङ्गधन्वेत्यस्य कोऽभिप्रायः सुशिक्षितधनुर्विद्योऽपि सन्; अन्यच्च,
हे जलपते ! समुद्र ! तव तथाविधं धैर्य क्व गतं क्व यातं इदानीं दीनतां जहिहि
मुञ्च दैन्यं त्यज, यतस्त्वं न दीनः कदाचिदपि दीनो न भवसि, अत्र उक्तिलेशः,
नदीनां इनः स्वामी नदीन: यस्तु चपलानां स्वामी भवति स धैर्य त्यजत्येव प्रि
च, हे सुनासीर ! इन्द्र ! हे भयपिशुन ! भयसूचक ! भयं पिशुनयति सूचयति
इति भयपिशुन:, शोभनं नासीरं सेनामुखं यस्य स सुनासीरः, ते नासीरधूलिः
सैन्यरेणु: शत्रुभङ्गे शक्ता इति श्रयते, अत्र प्रकारप्रश्लेषात् अभयपिशुन इति
सुनासीरत्वात् तव भयपिशुनता अनुचितेति कृत्वा तदेवं गुणविशिष्टस्त्वं ममाग्रतः
क्व यासि क्व पलायसे धैर्यादेतत्ते न युक्तम् ॥३४॥
सं० व्या० - ३४. निर्वाण : किमिति ॥ सा पार्वती वो युष्मान् पातु रक्षतु
यया पार्वत्या रिपुः शत्रुर्महिषोऽवधि हतः, किं कुर्वन् एवं जल्पन् इत्येवं, मिर्वाणः
कि त्वमेक इत्यादि, हे शिखिन् ! वैश्वानर ! कि त्वमेकः केवलो रणशिरसि
सङ्ग्राममूर्द्धनि निर्वाणो नि:स्नेहको जात:, किन्तु शार्ङ्गधन्वाऽपि विष्णुरपि निर्वाण,
कि कुर्वन् विध्यन् ताडयन् शरैर्मामित्यर्थान्त्रेयं शाङ्गं धनुरस्येति विग्रहः 'धनुषश्चा-
तडित्यसमासान्तः कोऽर्थः शरं मुञ्चन् विष्णुरपि निर्वाणो वाणरहितः न च
किमपि साधितं तत्ते धैर्यं क्व यातं, शिखिन् ! तव धैर्यं क्व जातं; जलपते ! वरुण !
जहिहि त्यज दीनतां दैन्यं, त्वं न दोनः यः किल दीनो भवति स दीनत्वं जल्पति
त्वं नदीनो नदीनामिनः [स्वामी] इति, हे सुनासीर ! शऋ ! भयपिशुन ! भयसूचक !
आशीर्वस्ते तव शत्रुभङ्गे शत्रूणां भङ्गे शक्तः समर्थः, न प्रधूलि: किन्तु धूलि: पातु
माम्ं प्रातर्विष्णुत्वादिति भावः शृणोतीत्याशीः इति शृणातेराङ्पूर्वात् क्विप्,
धिक् निन्दायां, क्व यासि शक्र ! क्व गच्छसि, मम वशीभूत इत्यर्थः ॥३४॥
नन्दिन्नानन्ददो मे तव मुरजमृदुः संप्रहारे प्रहारः
"
किं दन्ते रोग रुग्णे ब्रजसि गजमुख ! त्वं वशीभूत एव ।
निघ्नन्निघ्नन्निदानीं द्यु जनमिह महाकाल एकोऽस्मि कोऽन्यः
कन्याद्र`दैत्यमित्थं प्रमथपरिभवे मृदूनती त्रायतां वः ॥३५॥
१० ज० का० नान्यः ।
२. ज० प्रथमपरिभवे ।
.